SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ AN ताधर्म सर्व सुगम, नवरं 'एवं सुरियाभेत्ति यथा राजप्रश्नकृते सूरिकाभो देवो वर्णितः एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह 'जाव दिव्वाई र इत्यादि, स चायं वर्णक: 'तिहिं परिसाहिं सत्तहिं, अणिएहिं सत्तहिं अणियाहिवईहिं' इत्यादि 'इमं च णं केवलकप्पति इमं च केवल-परिपूर्ण: स चासौ की कल्पश्च-स्वकार्यकरणसमर्थ इति केवलकल्प: केवल एव वा केवलकल्प: तं 'आभोएमाणे' इव यावत्करणादिदं दृश्यं पासइ समणं भगवं महावीर' मित्यादि। FOR 'कूडागारदिद्रुते'त्ति एवं चासौ 'से केणद्वेणं भंते ! एवं वुच्चइ सरीरगं गया सरीरगं अणुपविट्ठा?, गोयमा! से जहा नामए कूडागारसाला इसिया दुहओ' बहिरन्तश्च 'गुत्ता लित्ता' सावरणत्वेन गोमयाधुपलेपनेन च, उभयतो गुप्तत्वमेवाह-गुप्ता-बहिः प्राकारावृता गुत्तदुवारा-अन्तप्तेत्यर्थः अथवा गुप्ता गुप्तद्वारा द्वाराणां केषांचित् स्थगितत्वात् केषांचिच्चास्थगितत्वादिति 'निवाया' वायोरप्रवेशात् 'निवायगंभीरा' किल महद् गृहं निवातं प्रायो न भवतीत्यत आह निवातगम्भीरा निवातविशालेत्यर्थ, 'तीसे णं कूडागारसालाए अदूरसामंते एत्थ णं महं एगे जणसमूहे चिट्ठइ, तए णं से जणसमूहे एगं महं अब्भवद्दलयं वा वासवद्दलयं वा महावायं वा एज्जमाणं पासइ पासित्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्ठ इ से तेणटेणं गोयमा ! एवं वुच्चइ सरीरगं गया सरीरगं अणुपविट्ठत्ति, असाधु-दर्शनेनेत्ति साधूनामदर्शननात एवं 'अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन 'अशुश्रूषणया' श्रवणेच्छाया R अभावेन 'सम्यक्त्वपर्यवैः सम्यक्त्वरूपपरिणामविशेषैरेवं मिथ्यात्वपर्यवैरपि मिथ्यात्वं विशेषेण प्रतिपन्नो विप्रतिपन्न: २। कू काष्ठकर्माणि - दारुमयपुत्रिकादिनिर्मापणानि एवं सर्वत्र, नवरं पुस्तं-वस्त्रं चित्रं लेप्यं च प्रसिद्धं ग्रंथिमानि- यानि सूत्रेण प्रथ्यन्ते मालावत् वेष्टिमानि-यानि छ वेष्टनतो निष्पाद्यन्ते पुष्पमालालम्बूसकवत् पूरिमाणि-यानि पूरणतो भवन्ति कनकादिप्रतिमावत् सङ्घातिमानि-सातनिष्पाद्यानि रथादिवत् उपदर्श्यमानानि लोकैरन्योऽन्यमित्यर्थः, 'तालायरकर्म'ति प्रेक्षणककर्मविशेष: ४। 'तेगिच्छियसालं ति चिकित्साशालं - अरोगशाला वैद्या-भिषग्वरा: आयुर्वेदपाठका: वैद्यपुत्रा-तत्पुत्रा एव 'जाणुयति ज्ञायकाः शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगस्वरूपत: चिकित्सावेदिनः कुशला:-स्ववितर्काच्चिकित्सादिप्रवीणाः, 'वाहियाणं ति व्याधिताना विशिष्टचित्तपीडावतां शोकादिविप्लुतचित्तानामित्यर्थः अथवा विशिष्टा आधिर्यस्मात् स व्याधि:- स्थिररोग: कुष्ठादिस्तद्वतां ग्लानानां-क्षीणहर्षाणामशक्तानामित्यर्थ: रोगितानां सञ्जातज्वरकुष्ठादिरोगाणामाशुधातिरोगाणां वा 'ओसह'मित्यादि औषधं-एकद्रव्यरूपं भैषज-द्रव्यसंयोगरूपं अथवा औषधं-एकानेकद्रव्यरूपं भैषजं तु-पथ्यं भक्तं N तु- भोजनमात्र प्रतिचारककर्म प्रतिचारकत्वं 'अलंकारियसहति नापितकर्मशाला ५ ।' ॥२२२ ॥ EVRAN
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy