________________
'मच्चुगलथल्लणोल्लियमईति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तया नोदिता-स्वदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता छ मतिर्यस्य स तथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको ज्ञात्वा शनै: २ 'उव्विहईत्ति उद्विजहाति-ऊद्ध्वं क्षिपति, 'तहेव सणिय' इत्येतत् पदद्वयं वाचनान्तरे और
नोपलभ्यते निजकपृष्ठात्- शरीरावयवविशेषात् विगयसत्थं'ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्ष: शैलक इति, 'ओवयंत'ति अवपतन्तं 'सरसबहियस्स'त्ति सरसं-अभिमानरसोपेतं वधितो-हतो य: स तथा तस्य 'अंगमंगाईति शरीरावयवान् 'उक्खित्तबलिं'ति उत्क्षिप्त:-ऊद्धर्व आकाशे क्षिप्तो न भूमिपट्टादिषु निवेशितो यो बलि-देवतानामुपहारः स तथा तं चतुर्दिशं करोति, सा देवता 'पंजलि'त्ति प्रकृताञ्जलि: प्रकृष्टतोषवती ५ ॥सूत्रं ९१ ॥
एवामेव समणाउसो! जो अम्हं निग्गंथाण वा २ अंतिए पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियट्टिस्सति, जहा वा से जिणरक्खिए
छलओ अवयक्खतो निरावयक्खो गओ अविग्घेणं। तम्हा पवयणसारे निरावयक्खेण भवियव्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसायरे घोरे।
भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥२॥ ॥सूत्रं ९२ ॥ 'एवमेवे'त्यादि निगमनं 'आसाय'त्ति प्राप्तानाश्रयति भजते-अप्राप्तान् प्रार्थयेतऋद्धिमन्तं याचते सपृहयति-अप्रार्थित इव यद्ययं श्रीमान् भोगान् में ददाति का तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलषति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थं;
अत्रार्थे 'छलिउं' गाहा-छलितो-व्यंसितोऽनर्थं प्राप्त: 'अवकाङ्क्षन्' पश्चाद्भागमवलोकयन् जिनरक्षित इति प्रस्तुतमेव 'निरवयक्खो ' निरवकाङ्क्ष: oc पश्चाद्भागमनवेक्षमाणस्तन्निस्स्पृह इत्यर्थो गत:-स्वस्थानं प्राप्तोऽविघ्न-अन्तरायाभावेन जिनपालित इति वक्ष्यमाणं, एष दृष्टान्तानुवादो, दार्टान्तानुवादों,
दार्टान्तिकस्त्वेवं-यस्मादेवं तस्मात् 'प्रवचनसारे' चारित्रे लब्धे सतीति गम्यते 'निरवकाङ्क्षण' परित्यक्तभोगान् प्रति निरपेक्षेण-अनभिलाषवता भवतिव्यमिति
२०७ ॥
॥१॥
___ 'भोगे' गाहा चरित्रं प्रतिपद्यापि भोगानवकाङ्क्षन्तः पतन्ति संसारसागरे घोरे जिनरक्षितवत्, इतरे तु तरन्ति जिनपालितवत् समुद्रमिति ॥२॥ शेषं सूत्रसिद्धं ॥सूत्रं ९२॥