________________
॥१९९॥
म तथैव तत्र वनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधानवनस्पतिकुसुमानि तान्येव धवला ज्योत्स्ना-चन्द्रिका यस्य स तथा पाठान्तरेण का 'सितकुंदविमलजोण्हो'त्ति स्पष्टं, कुसुमितो यो लोध्रवनखण्डः स एव मण्डलतलं-बिम्बं यस्य स तथा, तुषारं-हिमं तत्प्रधाना: या उदकधारा-उदकबिन्दुप्रवाहास्ता एव पीवरा:-स्थूला: करा:-किरणा यस्य स तथा, हेमन्तऋतुरेव शशी-चन्द्र इति विग्रहः स्वाधीनः ॥२ ॥
तथैव 'वसंते गिम्हे यत्ति फाल्गुनचैत्रौ वैशाखज्येष्ठौ चेत्यर्थः
'तत्थ उ' इत्यादि गीतिकाद्वयं, तत्र च सहकाराणि-चूतपुष्पाणि तान्येव चारुर्हारो यस्य स तथा, किंशुकानि-पलाशस्य कुसुमानि कर्णिकाराणि-कर्णिकारस्य इ अशोकानि चाशोकस्य तान्येव मुकुटं-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबकुलानि-तिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्त ऋतुर्नरपति: स्वाधीन: प्रतीतम् ।१ ॥ ___तत्र च पाटलाशिरीषाणि-पाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिका-विचकिलो वासन्तिका-लताविशेष: तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवला-सिता वेला-जलवृद्धिर्यस्य स तथा, शीतल: सुरभिश्चं योऽनिलो-वायुः स एव मकरचरितं यत्र स तथा, इह चानिलशब्दस्य अकारलोप: प्राकृतत्वात् 'अरणं रणं अलायं लाउय'मित्यादिवत्, ग्रीष्मऋतुसागरः स्वाधीन इति ॥२॥
'उग्गविसे' इत्यादि: उग्रं दुर्जरत्वाद्विषं यस्य स उपविष; एवं सर्वत्र, नवरं चण्डं झगिति व्यापकत्वात्, पाठान्तरे तु 'भोगविसे' इति तत्र भोग: शरीरं स एव विषं यस्येति, घोरं परम्परया पुरुषसहस्रस्यापि घातकत्वात्, महत् जम्बूद्वीपप्रमाणशरीरस्यापि विषतयाऽऽभवनात्, कायान्-शरीराणि शेषाहीनामतिक्रान्तोऽतिकाय: छ अत एव महाकाय; 'जहा तेयनिसग्गे'त्ति शेषविशेषणानि यथा गोशालकचरिते तथेहाध्येतव्यानीत्यर्थ: तानि चैतानि मसिमहिसमूसाकालगे' मषी च महिषश्च
मूषा च-स्वर्णादितापनभाजनविशेष: इति द्वन्द्वः एता इव कालको य: स तथा, 'नयणविसरोस-पुण्णो' नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण इत्यर्थ; 'अंजणपुंजनिगरप्पगासे' कज्जलपुज्जानां निकर इव प्रकाशते य: स तथा, रत्तच्छे जमलजुयल-चंचलचलंतजीहे' यमलं-सहवर्त्ति युगल-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्यो:-अतिचपलयोर्जिह्वयोर्यस्य स तथा, 'धरणितलवेणिभूए' धरणीतलस्य वेणीभूतो-वनिताशिरस: केशबन्धविशेष इव य: कृष्णत्वदीर्घत्वश्लक्ष्णत्वपश्चाद्भागत्वादिसाधर्म्यात् स तथा, 'उक्कडफुडकुडिल- जडिलकक्खड-विगडफडाडोव-करणदच्छे उत्कटो बलवतान्येनाध्वंसनीयत्वात् स्फुटो-व्यक्त: प्रयलविहितत्वात् कुटिल:-तत्स्वरूपत्वात् जटिल:-स्कन्धदेशे केसरिणामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठरो बलवत्त्वात् विकटश्च-विस्तीणों य: स्फटाटोप:-फणासंरम्भ: तत्करणे दक्षो य: स तथा, 'लोहागरधम्ममाण-धमधमेंतघोसे' लोहाकरे ध्मायमानं-अग्निना ताप्यमानं
मे
-
र
का