________________
जाताधर्म
सू. ८१
ते मागंदियदारए दोच्चंपि तच्चंपि एवं वदति २ वेउब्विय-समुग्घाएणं समोहणति २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अणुपरियट्टेडं पयत्ता यावि होत्था ३ ॥सूत्रं ८८॥
'सक्कवयणसंदेसेण'ति शक्रवचनं चासौ सन्देशश्च-भाषकान्तरेण देशान्तरस्थस्य भणनं शक्रवचनसन्देश: तेन, अशुचिकं अपवित्रं
समुद्रस्याशुद्धिमात्रकारकं पत्रादीति प्रक्रम: पूतिकं-जीर्णतया कुथितप्रायं दुरभिगन्धं-दुष्टगन्धं, किमुक्तं भवति? -अचोक्ष-अशुद्धं, 'तिसत्तखुत्तो'त्ति त्रिभिर्गुणिता: कथाङ्गम् र सप्त त्रिसप्त वारा: त्रिसप्तकृत्वा एकविंशतिवारानित्यर्थः१ ।
साई 'एयंसि अंतरंसित्ति एतस्मिन्नवसरे विरहे वा 'उव्विग्ग'त्ति उद्विग्नौ उद्वेगवन्तौ 'उप्पिच्छत्ति भीतौ पाठान्तरेण उत्प्लुतौ-भीतावेव 'उस्सुय'त्ति उत्सुकौ ॥१९८॥
अस्मत्समागमनं प्रति, 'तत्थ णं दो उदू' इत्यादि, तत्र-पौरस्त्ये वनखण्डे द्वौ ऋतू-कालविशेषौ सदा स्वाधानौ-अस्तित्वेन स्वायत्तौ, तज्जन्यानां
वनस्पतिविशेषपुष्पादीनां सद्भावात्, तद्यथा-प्रावृट् वर्षारात्रश्च, अषाढश्रावणौ भाद्रपदाश्चयुजौ चेत्यर्थ; अनयोरेव रूपकालङ्कारेण वर्णनाय गीतिकाद्वयम् । 'तत्थ धु इउ'इत्यादि, तत्रैव पूर्ववनखण्डे नान्यत्रौदीच्ये पश्चिमे वेत्यर्थ: कन्दलानि च-प्रत्यग्रलता: सिलिन्धाश्च-भूमिस्फोटा, अन्ये त्वाहु:-कन्दलप्रधाना: सिलिन्ध्रा-वृक्षविशेषा
ये प्रावृषि पुष्यन्ति सितकुसुमाश्च भवन्ति त एव कुसुमिता: सन्तो दन्ता यस्य धवलत्वसाधर्म्यात् स: कन्दलसिलीन्ध्रदन्तः इह च सिलीन्ध्राणां कुसुमितत्वविशेषणं
सामर्थ्याव्याख्यातं, कुसुमाभावे तेषां प्रावृषोऽन्यत्रापि कालान्तरे सम्भवादिति, तथा 'निउरो'त्ति वृक्षविशेष: तस्य यानि वरपुष्पाणि तान्येव पीवर-स्थूरः करो यस्य पुणेस तथा, कुटजार्जुननीपा-वृक्षविशेषास्तत्पुष्पाणि कुटजार्जुननीपानि तान्येव सुरभिदानं-सुगन्धिमदजलं यस्य स तथा, प्रावृट् ऋतुरेव गजवरः प्रावृऋतुगजवरः स्वाधीन, इह सिलिन्ध्रादिवनस्पतीनां कालान्तराकृतकुसुमानां सदाकुसुमितानां भावादात्मवशोऽस्तीति भावः ॥१॥ .
तथा तत्रैव वनखण्डे सुपगोपा-इन्द्रगोपकाभिधाना रक्तवर्णाः कीटास्त एव मणय: पद्मरागादय: तैर्विचित्र:-कर्बुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं तदेव उज्झररवो-निर्झरशब्दो यत्र स तथा बर्हिणवृन्देन-शिखण्डिसमूहेन परिणद्धानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपक्षे कूटानी यत्र स तथा वर्षारात्रऋतुरेव पर्वत इति विग्रह; स्वाधीन:-स्वायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति ॥२॥
'वावीसु'इत्यादि प्रथमाध्ययनवत्, 'सरओ हेमंतो यत्ति कार्त्तिकमार्गशीषौ पौषमाधौ चेत्यर्थ; इहापि गीतिकाद्वयं
'तत्थ उ'इत्यादि तत्रैव सनो-वल्कप्रधानो वनस्पतिविशेष:सप्तपर्ण:-सप्तच्छदस्तयो: पुष्पाणि सनसप्तपर्णानि तान्येव ककुदं-स्कन्धदेशविशेषो यस्य स तथा नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव श्रृङ्गे यस्य स तथा, सारसाश्चक्रवाकाश्च-पक्षिविशेषास्तेषां 'रवियं'ति रुतं तदेव घोषो-नर्दितं यस्य स तथा शरदृतुरेव गोपति:-गवेन्द्रः शरदृतुगोपति: स्वाधीन: ॥१॥
॥१९८॥