________________
।।१९१ ।।
कालागुरुप्रवरकुन्दरुक्कतुरुक्क धूपान् घृतं मधु च कुम्भायशः प्रचिक्षिपुः तती मांसादिषु दग्धेषु मेघकुमारा देवा: क्षीरोदकेन चितीर्निर्वापयामासुः ततः शक्रो भगवतो • दक्षिणमुपरितनं सक्थि जग्राह ईशानश्च वामं चमरोऽधस्तनं दक्षिणं बलिर्वामं शेषां यथाऽर्हमङ्गोपाङ्गानि गृहीतवन्तः ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् चक्रुः परिनिर्वाणमहिमानं च ।
ततः शक्रो नन्दीश्वरे गत्वा पूर्वस्मिन्नञ्जनकपर्वते जिनायतनमहिमानं चकार तल्लोकपालास्तु चत्वारश्चतुर्षु पूर्वाञ्जनपार्श्ववर्त्तिषु दधिमुखपर्वतेषु सिद्धायतनमहिमानं चक्रु; एवमीशानः उत्तरस्मिंस्तल्लोकपालास्तत्पार्श्ववर्त्तिदधिमुखरेषु चमरो दक्षिणाञ्जनके तल्लोकपालास्तथैव बलिः पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः स्वकीये विमाने गत्वा सुधर्म्मसभामध्यव्यवस्थितमाणवकाभिधानस्तम्भवर्त्तिवृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्त्तिजिनसक्थीन्यपूपुजत् मल्लिजिनसक्थि च तत्र प्राक्षिपद् एवं सर्वं देवा इंति ३ ।
'एवं'मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि दृष्टान्तदान्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टव्या, अन्यथा ज्ञातात्वानुपपत्तेः सा च किलैवम्-उग्गतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स । धम्मविसएवि सुहुमावि होइ माया अणत्थाय ॥ १ ॥ जह मल्लिस्स महाबलभविं तित्थयरनामबंधेऽवि । तवविसय थेवमाया जाया जुवइत्तउत्ति ॥ २ ॥ [ उग्रतप:संयमवतः प्रकृष्टफलसाधकस्यापि जीवस्य धर्मविषयाऽपि सूक्ष्माऽपि भवति माया पुनरनर्थाय ॥ १ ॥ यथा मल्ल्या महाबलभवे तीर्थकरनामबन्धेऽपि तपोविषया स्तोका माया जाता युवतिभावहेतुः ॥२ ॥] ४ ॥सू. ८४ ॥ अष्टमज्ञातविवरण समाप्तमिति ॥८ ॥
॥९ ॥ अथ माकन्दीनाम नवमज्ञातविवरणम् ॥
अथ नवमं विव्रियते, अस्य च पूर्वेण सहायमभिसम्बन्धः- पूर्वत्र मायावतोऽनर्थ उक्तः इह तु भोगेष्वविरतिमतोऽनर्थो विरतिमतश्चार्थोऽभिधीयते इत्येवसम्बद्धंजइ णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते, नवमस्स णं भंते! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था, तीसे णं चंपाए णयरीए कोणिए णामं राया होत्था, तत्थ णं चंपाए णयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं पुण्णभद्दे णामं चेइए होत्था, तत्थ णं माकंदी नामं सत्थवाहे परिवसति, अड्ढे, तस्स णं भद्दा नामं भारिया, तीसे णं भद्दाए अत्तया दुवे सत्थवाहदारया होत्था, तंजहा- जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं
- ।।१९१ ।।