SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कथाम ॥१९०॥ णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं - अपाणएणं वग्घारियपाणी खीणे वेयणिज्जे आउए नामे गोए सिद्धे, एवं परिनिव्वाण-महिमा भाणियव्वो जहा जंबुद्दीव-पण्णत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ३। ज्ञाताधर्म एवं खलु जंबू! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ४ ॥सूत्रं ८४ ॥८॥ 'अट्ठाहियामहिमति अष्टानामह्नां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां साऽष्टाहिका, इदं च व्युत्पत्तिमात्रं प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये र तवयं न विरुध्यते इति १ । 'दुविहा अंतकरभूमि'त्ति अन्तकरा:-भवान्तकरा: निर्वाणयायिनस्तेषां भूमि:-कालान्तरभूमि; 'जुयंतकरभूमी'त्ति इह युगानि-कालमानविशेषास्तानि च SC क्रमवर्तीनि तत्साधाद्ये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपा: पुरुषास्तेऽपि युगानि तै: प्रमिताऽन्तकरभूमि: युगान्तकरभूमि; 'परियायतकरभूमि'ति पर्याय:-तीर्थकरस्य केवलित्वकालस्तमाश्रित्यान्तकरभूमिर्या सा तथा तत्र, 'जावे'त्यादि इह पञ्चमी द्वितीयार्थे द्रष्टव्या ततो यावद्विंशतितमं पुरुष-एव युगं पुरुषयुगं 8E विंशतितमं प्रतिशिष्यं यावदित्यर्थ: युगान्तकरभूमिमल्लिजिनस्याभवत्, मल्लिजिनादारभ्य तत्तीर्थे विंशतितमं पुरुषं यावत् साधव: सिद्धास्तत: परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए'त्ति द्विवर्षपर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकार्षीत्-भवान्तमकरोत् तत्तीर्थे साधु रात्र र कश्चिदपीति, 'दुमासपरियाए' इति क्वचित् क्वचिच्च 'चउमासपरियाए' इति दृश्यते, 'वग्धारियपाणी'ति प्रलम्बितभुजः, 'जहा जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूद्वीपप्रज्ञप्त्यां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस्य वाच्य इत्यर्थः । स चैवमर्थत:-यत्र समये मल्लिरहन् कालगतो व्यतिक्रान्त: समुद्घात: छिन्नजातिजरामरणबन्धन: सिद्धः तत्र समये शक्रश्चलितासन: प्रत्युक्तावधिर्विज्ञातजिननिर्वाण: सपरिवारः सम्मतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्णनयनो जिनशरीरकं त्रि: प्रदक्षिणीकृत्ये अनतिदूरासन्ने र नमस्यन् पर्युपास्ते स्म, एवं सर्वेऽपि वैमानिकादयो देवराजा; ततः शक्रो देवैनन्दनवनात् आनायितगोशीर्षसरसदारुविहितचितित्रय: क्षीरसमुद्रादानीतक्षीरोदकेन । जिनदेहं स्नापयामास गोशीर्षचन्दनेनानुलिलेप हंसलक्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेषा देवा गणधरानगारशरीरकाण्येवं चक्रुः शक्रस्ततो पू र देवैस्तिस्र: शिबिका: कारयामास, तत्रैकत्रासौ जिनशरीरमारोपयामास महा च चितिस्थाने नीत्वा चितिकायां स्थापयामास, शेषदेवा गणधरानगारशरीराणि: द्वयो: शिबिकयोरारोप्य चित्योः स्थापयामासुः ततः शक्रादेशादग्निकुमारा देवास्तिसृष्वपि चितिष्वग्निकार्य विकृतवन्तो वायुकुमारास्तु वायुकायं शेषदेवाश्च शक
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy