SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ।।१८५ ।। तएां से कुंभए मिहिलाए रायहाणीए तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिण्णभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति २ जे जहा आगच्छंति तंजहा पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगतस्स तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति २ । तते णं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्स एवमातिक्खति एवं खलु देवाणुप्पिया ! कुंभगस्स रण्णो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव (सुरासुरियं) परिवेसिज्जति, 'वरवरिया घोसिज्जति किमिच्छियं दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१ ॥ तते णं मल्ली अरहा संवच्छरणं तिन्नि कोडिसया अट्ठासीतिं च होंति कोडीओ असितिं च सयसहस्साइं इमेयारूवं अत्यसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति ३ ॥ सूत्रं ८२ ॥ 'जाव मागहओ पायरासो'त्ति मगधदेशसम्बन्धिनं प्रातराशं प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः, 'बहुण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्य: अनाथेभ्यो-रङ्केभ्य: 'पंथियाणं 'ति पन्थानं नित्यं गच्छन्तीति पान्थास्त एव पान्थिकास्तेभ्यः 'पहियाणं'ति पथि गच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि क्वचित् प्रेषितेभ्य इत्यर्थ: करोट्याकपालेन चरन्तीति करोटिकास्तेभ्यः क्वचित् 'कायकोडियाणं'ति पाठस्तत्र काचो - भारोद्वहनं तस्य कोटी भागः काचकोटी तया ये चरन्ति काचकोटिकास्तेभ्यः कर्पटैश्चरन्तीति कार्पटिका: कापटिका वा कपटचारिणस्तेभ्य, 'एगमेगं हत्थामासं 'ति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्श - परामर्शो ग्रहो हस्तामर्श: तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकस्मै ददाति स्म, प्रायिकं चैतत्सम्भाव्यते ' वरवरिया घोसिज्जइ किमिच्छियं दिज्जइ बहुविहीयंति वचनात् अत एव 'एगा हिरण्णकोडी' त्याद्यपि शक्रार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि . स्वकीयधनधान्यादिगतं दानं सम्भवतीति, 'तत्थ तत्थ'त्ति अवान्तरपुरादौ देशे देशे श्रृङ्गाटकादौ 'तहिं तहिं 'ति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति तात्पर्यमिति, महानससाला - रसवतीगृहाणि 'दिण्णभयभत्तवेयण'त्ति दत्तं वितीर्णं भृतिभक्तलक्षणं द्रव्यभोजनस्वरूपं वेतनं मूल्यं येभ्यस्ते तथा 'पाखंड'त्ति लिङ्गिनः २ । 'सव्वकामगुणियं 'ति सर्वे कामगुणा-अभिलषणीयपर्याया रूपरसगन्धस्पर्शलक्षणा: सन्ति सञ्जाता वा यत्र तत् सर्वकामगुणिकं सर्वकामगुणितं वा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत्, 'सुरासुरिय'ति वाचनान्तरे दृष्यते तत्र भोजने अयं च सूरोऽयं च सूरो भुंक्तां च यथेष्टमित्येवं या परिवेषणक्रिया सा सूरासूरिका पुटापुटिकादीनामिवात्र समासः तया सूरासूरिकया, तृतीयार्थे चेह सूत्रनिर्देशे द्वितीया ।।१८५ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy