SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ।। १५९ ।। 'सा वड्डए भगवती'त्यादि गाथाद्वयं आवश्यकनिर्युक्तिसम्बन्धिऋषभमहावीरवर्णकरूपं बहुविशेषणसाधर्म्यादिहाधीतं न पुनर्गाथाद्वयोक्ताि • विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव तच्च दर्शयिष्यामः ततः सा वर्द्धते वृद्धिमुपगच्छति स्म भगवती ऐश्वर्यादिगुणयोगात् देवलोकाच्च्युता अनुत्तरविमानावतीर्णत्वात् अनुपमश्रीका - निरुपमानशोभा दासीदासपरिवृतेति प्रतीतं, परिकीर्णा परिकरिता पीठमर्दै-वयस्यैरिति, एतत्किल प्रायः स्त्रीणामसम्भवि, वयस्यिकानामेव तासां सम्भवात् अथवा अलौकिकचरितत्वेन पीठमर्द्दसम्भवेऽपि निर्दूषणत्वेन भगवत्या नेदं विशेषणं न सम्भवति, असितशिरोजा-काकुन्तल सुनयना- सुलोचना बिम्बोष्ठी-पक्वगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपङ्क्तिका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशेषणं न सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णत्वात् भगवत्याश्च मल्लयाः प्रियङ्गवर्णत्वेन श्यामत्वाद् उक्तं च- "पउमाभ वासुंपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥ १ ॥” इति, अथवा वरकमलस्य-प्रधानहरिणस्य गर्भ इव गर्भो जठरसम्भूतत्वासाधर्म्यात् वरकमलगर्भ-कस्तूरिका तद्वद् गौरी- अवदाता वरकमलगर्भगौरी श्यामवर्णत्वात्, कस्तूरिकाया इव श्यामेत्यर्थः पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः, वाचनान्तरेण वरकमलकोमलाङ्गीत्यनवद्यमेव, फुल्लं विकसितं यदुत्पलं-नीलोत्पलादि तस्य यो गन्धस्तद्वन्निःश्वासो गन्धसाधर्म्याद्यस्याः सा तथा सुरभिनिःश्वासेत्यर्थः पाठान्तरेण 'पउमुप्पलुप्पलगंधनीसास'त्ति तत्र पद्मं शतपत्रादि गन्धद्रव्यविशेषो वा उत्पलं- नीलोत्पलमित्यादि उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति ॥ सूत्रं ७२ ॥ तसा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव रूवेण जोव्वणेण य लावन्त्रेण य अतीव २ उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्या, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुलेण ओहिणा आभोएमाणी २ विहरति, तंजहा पडिवुद्धि जाव जियसत्तुं पंचालाहिवई, तते णं सा मल्ली कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी तुब्भे णं देवाणुप्पिया ! असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभ-सयसन्निविद्वं, तस्स णं मोहणघरस्स बहुमज्झदेसभाए छ गब्भघरए करेह, तेसि णं गब्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह २ जाव पच्चप्पिणंति १ । तते णं मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिस लावन्न जोव्वण-गुणोववेयं कणगमई मत्थयच्छिड्डुं पउमुप्पलप्पिलप्पिहाणं पडिमं करेति २ जं विपुलं असणं ४ आहारेति ततो मणुन्नाओ असणपाण- खाइम साइमाओ कल्ला कल्लि एगमेगं पिंड गहाय ती कणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्ययंसि पक्खिवमाणी २ विहरति, तते णं तीसे कणगमतीए जाव मत्थयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउब्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अणिट्ठतराए अमणामतरए २ ॥ सूत्रं७३ ॥ ।। १५९ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy