________________
जाताधर्म
कथाङ्गम्
ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवा: छत्रचामरकलशधूपकडुच्छुकपुष्पगन्धाद्यनेकविधाभिषेकद्रव्यव्यग्रहस्ता: वज्रशूलाद्यनेकायुधसम्बन्धबन्धुरपाणय: आनन्दजललवप्लुतगण्डस्थलाकर ललाटपलघटितकरसम्पुटा जयजयारवमुखरितदिगन्तरा: प्रमोदमदिरामन्दमदवशविरचितविविधचेष्टा: पर्युपासांचक्रिरे, तथा केचित् चतुर्विधं वाद्यं वादयामासुः
केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधं नृत्तं ननृतुः केचिच्चतुर्विधमभिनयमभिनिन्युः केचिद् द्वात्रिंशद्विधं नाटयविधिमुपदर्शयामासुरिति, ततो पार्श्वस्थता ॥१५८॥
EC गन्धकाषायिकया गात्राण्यलूषयन्, ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिनमलञ्चकार, ततो जिनपते: पुरतो रजतमयतन्दुलैर्दर्पणादीन्यष्टाष्टमङ्गलकान्यालिलेख राइ पाटलादिबहलपरिमलकलितकुसुमनिकरं व्यकिरत् शुभसुरभिगन्धबन्धुरं धूपं परिददाह । र अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरज: ! श्रमण ! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! EK निःशल्य ! नि:सङ्ग! मानमूरणागण्यगुणरत्न ! शीलसागर ! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तेऽहर्ते नमोऽस्तु ते भगवते इत्यभिधाय वन्दते
स्म, ततो नातिदूरे स्थित: पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचु; केवलं सर्वान्ते शक्रोऽभिषिक्तवान्, तदभिषेकावसरे च ईशान: शक्रवदात्मानं पञ्चधा विधाय शु जिनस्योत्सङ्गधरणादिक्रियामकरोत्, ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योऽष्टौ तोयधारा युगपद्विनिर्ययुः वेगेन च वियति 8 समुत्पेतुः एकत्र च मिलन्ति स्म भगवतो मूर्द्धनि च निपेतु, शेषमच्युतेन्द्रवदसावपि चकार ।
ततोऽसौ पुनर्विहितपञ्चप्रकारात्मा तथैव गृहीतजिनश्चतुर्निकायदेवपरिवृत: तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्या: समीपे स्थापयामास, म जिनप्रतिबिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डलयुगलं च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके
दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, तत: शक्रो वैश्रमणमवादीत्-भो देवानुप्रिय ! द्वात्रिंशद्धिरण्यकोटीभत्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, स Fors तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्र: पुनर्देवैर्जिनजन्मनगर्यां त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवास्यादिदेवा: ! श्रृण्वन्तु भवन्तो यथा यो र जिने जिनजनन्यां वाऽशुभं मन: सम्प्रधारयति तस्यार्जकमञ्चरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः स्वस्थानानि च जग्मुरिति।
॥१५८॥ मालायै हितं तत्र वा साध्विति माल्यं-कुसुमं तद्गतदोहदपूर्वकं जन्मत्वेनान्वर्थत: शब्दतस्तु निपातनात् मल्लीति नाम कृतं, यस्तु स्त्रीत्वेऽपि तस्याहञ्जिनस्तीर्थकर इत्यादिशब्दैर्व्यपदेश: सोऽर्हदादिशब्दानां बाहुल्येन पुंस्स्वेव प्रवृत्तिदर्शनादिति, 'यथा महाबल'इति भगवत्यां महाबलोऽभिहित इहैव वा यथा पडू मेघकुमार इति।