SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सौधर्मकल्पे च शक्रस्य सहसा आसनं प्रचकम्पे अवधिं चासौ प्रयुयुजे तीर्थकरजन्म चालुलोके ससंभ्रमं च सिंहासनादुत्तस्थौ पादुके च मुमोच उत्तरासङ्गंच का चकार सप्ताष्टानि च पदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम पुन: सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपतिं ॥ शब्दयांचकार तं चादिदेश यथा सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानां घण्टां त्रिस्ताडयत्रुद्घोषणां विधेहि, यथा-भो भो देवा !गच्छति शक्रो जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृद्ध्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति, स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशद्घण्टालक्षाणि समकमेव रणरणारवं चक्रुः उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्टं देवाः सपदि विदधुः ततो पालकाभिधानाभियोगिकदेवविरचिते लक्षयोजनप्रमाणे पश्चिमावर्जदिक्त्रयनिवेशिततोरणद्वारे नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढ: सामानिकादिदेवकोटीभिरनेकाभि: परिवृतः पुरःप्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराद्यनेकमङ्गल्यवस्तुस्तोम: पञ्चवर्णकुडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानर्द्धिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रि: प्रदक्षिणीकृतवान्, र उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गलैर्भुवमप्राप्तं विमानमवस्थापितवान् । ततोऽवतीर्य भगवन्त समातृकं दिक्कुमारीवदभिवन्द्य जिनमातरमवस्वाप्य जिनप्रतिबिम्बं तत्सन्निधौ विधाय पञ्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिन: अन्येन जिननायकोपरिविधृतच्छत्र: अन्याभ्यां करचालितप्रकीर्णक: अन्येन च करकिशलयकलितकुलिश: पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्तिपण्डकवनं गत्वा तद्व्यवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्ण; एवमन्ये ईशानादयो वैमानिकेन्द्राश्चमरादयो सभवनपतीन्द्रा: कालादयो व्यन्तरेन्द्रा: चन्द्रसूर्यादयो ज्योतिष्का: सपरिवारा: मन्दरेऽवतेरुः । ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च तथाऽष्टसहस्रं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभिषेकोपयोगिनां भाजनानामष्टसहस्रं २ विचक्रु; तैश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदस्य च मागधादीनां च तीर्थानां गङ्गादीनां च महानदीनां पद्मादीनां महाह्रदानामुदकमुत्पलादीनि मृक्तिका च हिमवदादीनां च वर्षधराणां वर्तुलविजयार्द्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान् सर्वोषधी तूवराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः । ॥१५७॥ न
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy