________________
ज्ञाताधर्म
कथाम
१५६॥
सर्वा वाच्येति, नवरमिह मिथिलायां नगर्यां कुम्भस्य राज्ञः प्रभावत्या देव्या: इत्ययमभिलाप: संयोजितव्यो, जम्बूद्वीपप्रज्ञप्त्यां तु नायं विद्यते इति, किंपर्यवसानं जन्म
वक्तव्यमित्याह-यावन्नन्दीश्वरे 'महिम'त्ति अतिदिष्टग्रन्थश्चार्थत एवं द्रष्टव्यो, यथा अष्टौ दिक्कुमारीमहत्तरिका: भोगङ्कराप्रभृतयस्तत्समयमुपजातसिंहासनप्रकम्पा: र प्रयुक्तावधिज्ञानाः समवसितैकोनविंशतितमतीर्थनाथजनना: ससम्भ्रममनुष्ठितसमवाया: समस्तजिननायकजन्मसु महामहिमविधानमस्माकं जीतमिति विहितनिश्चया: स्वकीयस्वकीयाभियोगिकदेवविहितदिव्यविमानारूढाः सामानिकादिपरिकरवृताः सर्वा मल्लिजिनजन्मनगरीमागत्य जिनजन्मभवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरङ्गलैर्भुवमप्राप्तानि व्यवस्थाप्य जिनसमीपं जिनजननीसमीपं च गत्वा त्रि: प्रदक्षिणीकृत्य कृतप्राञ्चलिपुटा इदमवादिषुः 'नमोऽस्तु ते रत्नकुक्षिधारिके ! नोमऽस्तुते जगत्प्रदीपदायिके ! वयमधोलोकवास्तव्या दिक्कमार्यो जिनस्य जन्ममहिमानं विधास्यामः अतो युष्माभिर्न भेतव्यमिति' अभिधाय च विहितसंवर्त्तवाता: जिनजन्मभवनस्य समान्ताद्योजनपरिमण्डलक्षेत्रस्य तृणपत्रकचवरादेरशुचिवस्तूनोऽपनयनेन विहितशुद्ध्योर्जिनजनन्योरदूरतो जिनस्यासाधारणमगणितगुणगणमागायन्त्यस्तस्थु; एवमेवोर्ध्वलोकवास्तव्या
नन्दनवनकूटनिवासिन्य इत्यर्थ: अष्टौ दिक्कुमारीमहत्तरिकास्तथैवागत्य विरचिताभ्रवर्दलिका: आयोजनमानक्षेत्रं गन्धोदकवर्ष पुष्पवर्ष धूपघटीश्च कृत्वा पर र जिनसमीपमागत्य परिगायन्त्य आसांचक्रुः ।
तथा पौरस्त्यरुचकवास्तव्या रुचकाभिधानस्य त्रयोदशस्य द्वीपस्य मध्यवर्तिन: प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्वदिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थ: आगत्य तथैवादर्शहस्ता गायन्त्यस्तस्थु; एवं दक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ता: पश्चिमरुचकवास्ताव्या जिनस्य पश्चिमेन तालवृन्तहस्ता उत्तररुचकवास्तव्याश्चामरहस्ता जिनस्य उत्तरेण, एवं चतस्त्रो रुचकस्य विदिग्वास्तव्या आगत्य दीपिकाहस्ता जिनस्य चतसृषु विदिक्षु तथैव तस्थु, घर मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्यर्थ: चतस्त्रस्तास्तथैवागत्य जिनस्य चतुरङ्गलवर्जनाभिनालच्छेदनं च विवरखननं च नाभिनालनिधानं च विवरस्य रत्नपूरणं च तदुपरि हरितालिकापीठबन्धं च पश्चिमावर्जदिक्त्रये कदलीगृहत्रयं च तन्मध्येषु चतुःशालभवनत्रयं च तन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजनन्योरुपवेशनं च शतपाकादितैलाभ्यङ्गनं च गन्धद्रव्योद्वर्त्तनं च पुष्पोदकं च पूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमज्जनं च सर्वालङ्गारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्रियुज्वलनं चाग्निहोमं च भूतिकर्म च रक्षापोट्टलिकां च मणिमयपाषाणद्वयस्य जिनकर्णाभ्यणे प्रताडनं च भवतु भगवान् पर्वतायुरिति भणनं कि च पुन: समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति ।
२५६॥
ब