________________
ज्ञाताधर्मकथाङ्गम्
॥ १४ ॥
शिष्यामन्त्रणे 'इहैवेत्ति देशतः प्रत्यक्षासने न पूनरसंख्येयत्वात् जम्बूद्वीपानामन्यत्रेतिभावः भारते वर्षे क्षेत्रे 'दाहिणडद्भरहे 'त्ति दक्षिणार्धभरते नोत्तरार्द्धभरते 'देवी' त्ति राजभार्या वण्णओ'त्ति वर्णको वाच्य, स च वक्ष्यमाणधारिण्या इव दृश्य, 'अत्तए 'त्ति आत्मज: अङ्गज इत्यर्थ, 'अहीण जाव सुरूवे 'त्ति इह यावत्करणादिदं द्रष्टव्यं 'अहीणपंचिंदियसरीरे' अहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्य स तथा, 'लक्खणवंजणगुणोववेए' लक्षणानि - स्वस्तिकचक्रादीनि व्यञ्जनानि-मषतिलकादीनि तेषां यो गुण:- प्रशस्तता तेनोपपेतो-युक्तो यः स तथा उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात्, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगे' तत्र मानं-जलद्रोणप्रमाणता कथं ? - जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता, कथं ?, तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मान प्राप्त इत्युच्यते, प्रमाणं- स्वाङ्गलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि शिरःप्रभृतीनि . यस्मिन् तत्तथाविधं सुन्दरमंगं शरीरें यस्य स तथा, 'ससिसोमाकारे कंते पियदंसणे' शशिवत् सौम्याकारं कान्तं कमनीयमत एव प्रियं द्रष्ट् ऋणां दर्शनं रूपं यस्य स तथा, अत एव 'सुरूवे 'त्ति सुरूप इति ॥ सू० ६ ॥
तथा सामदण्डभेदउपप्रदानलक्षणा या राजनीतयः तासां सुष्ठ प्रयुक्तं प्रयोगो व्यापारणं यस्य स तथा, नयानां नैगमादीनां उक्तलक्षणनीतीनां च या विधा- विधयः प्रकारास्तान् जानाति य: स तथा पश्चात्पदद्वयस्य कर्मधारय, तत्र परस्परोपकारप्रदर्शनगुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्ड, विजिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिको भेद, गृहीतधनप्रतिदानादिकमुपप्रदानं, नयविधयस्तु सप्त नैगमादयो नया: प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदान स्य च पश्च कामन्दकादिप्रसिद्धा इति, तथा ईहा च स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिचेष्टा, अपोहश्च-स्थाणुरेवायमित्यादिरूपो निश्चय मार्गणं च इह वल्लयुत्सर्पणादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपं गवेषणं च-इह शरीरकण्डूयनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्यूहमार्गणागवेषणानि तैरर्थशास्त्रे अर्थोपायव्युत्पादग्रंथे कौटिल्यराज (धा) नीत्यादौ या मतिर्बोधस्तया विशारद-पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः तथौत्पत्तिक्यादिकया बुद्ध्या उपपेतो-युक्त, तत्रौत्पत्तिकी - अदृष्टाश्रुताननुभूतार्थविषयाऽऽकस्मिकी- वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्म्मजा कृषिवाणिज्यादिकर्माभ्यासप्रभवा पारिणामिकी-प्रायो वयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च भक्तसेवकराज्यादिदानलक्षणकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च स्वकीयपरकीयेषु विषयभूतेषु ये मन्त्रादयो निश्चयान्तास्तेषु आप्रच्छनीयाः, तत्र मन्त्रा-मन्त्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि लज्जनीयव्यवहारगोपितानि
२. १
श्रीसुधर्मागमर्न
सु. ४
।। १४ ।।