SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ।।१३५ ।। तथा खीणा वसंत'त्ति क्षयोपशममुपगता इत्यर्थः एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमसम्भावयताऽपभ्राजनार्थं प्रश्नः कृत इति ६ । 'सरिसवय'त्ति एकत्र सदृशवयसः समानवयसः अन्यत्र सर्षपाः- सिद्धार्थकाः 'कुलत्थि त्ति एकत्र कुले तिष्ठन्तीति कुलस्था; अन्यत्र कुलत्था: धान्यविशेषाः, सरिसवयादिपदप्रश्न: छलग्रहणेनोपहासार्थं कृत इति ७ । 'एगे भवं'ति एको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते सूरिणा श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीतिबुद्ध्या पर्यनुयोग: शुकेन कृत 'दुवे भवं 'ति द्वौ भवानिति च, द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्धया पर्यनुयोगो विहित, अक्षयः अव्ययः अवस्थितो भवाननेन नित्यात्मपक्ष: पर्यनुयुक्तः अनेके भूता-अतीता भावा:- सत्ताः परिणामा वा भव्याश्च भाविनो यस्य स तथा अ . चातिक्रान्तभाविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति । तत्राचार्येण स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यहं, कथं ?, द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्, न तु प्रदेशार्थतया, तथा ह्यनेकत्वान्ममेत्यवयवादी(मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भो न बाधक; तथा कञ्चित् स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं ज्ञानदर्शनार्थतया न चैकस्वभावे भेदो न दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वपितृत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, अव्ययः कियतामपि च व्ययाभावात् किमुक्तं भवति ? अवस्थितो नित्य, असङ्ख्येयप्रदेशता हि न कदाचनापि व्यपैति अतो नित्यताभ्युपगमेऽपि न दोष, उपयोगार्थतया - विविधविषयानुपयोगानाश्रित्य अनेक भूतभावभविकोऽपि, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्वाऽनित्यपक्षो न दोषायेति ८ । पुण्डरीकेण- आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वतः तस्य तत्र प्रथमं निर्वृतत्वात्पुण्डरीकपर्वतः शत्रुञ्जयः ९ ॥सू. ६२ ॥ अन्नयाकयाइं जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छति धम्मं सोच्चा नवरं देवाप्पिया ! पंथगपामोक्खातिं पंच मंतिसयातिं आपुच्छामि मण्डुयं च कुमारं रज्जे ठावेमि, ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवत्ता आगाराओ अणगारियं पव्वयामि, अहासुहं १ । , ।। १३५ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy