SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाइम् ।। १३४ ।। नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धि संपरिवुडे जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ २ पुंडरीयं पव्वयं सणियं २ दुरूहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जाव ओव तते णं से थावच्चापुत्ते बहूणि वासाणि सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए सट्टिं भत्तातिं अणसणाए जाव केवलवरनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे ९ ॥ सूत्रं ६२ ॥ 'सुए परिव्वायगे'त्ति शुको व्यासपुत्रः ऋग्वेदादयश्चत्वारो वेदाः षष्टितन्त्रं- साङ्ख्यमतं सांख्यसमये - साङ्खसमाचारे लब्धार्थो, वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामितिहासपञ्चमानां इतिहास:- पुराणं 'निर्घण्टुषष्ठानां' निर्घण्टु-नामकोश: 'साङ्गोपाङ्गानां’ अङ्गानि - शिक्षादीनि उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्यानां - ऐदम्पर्ययुक्तानां सारक:-अध्यापनद्वारेण प्रवर्तकः स्मारको वा अन्येषां विस्मृतस्य स्मारणात् •वारकोऽशुद्ध-पाठनिषेधकः पारग:- पारगामी षडङ्गवित् षष्टितन्त्रविशारदः षष्टित्त्रं-कापिलीयशास्त्रं षडङ्गवेदकत्वमेव व्यनक्ति-सङ्ख्याने गणितस्कन्धे 'शिक्षाकल्पे ' शिक्षायां-अक्षरस्वरूपनिरूपके शास्त्रे कल्पे - तथाविधसमाचारप्रतिपादके व्याकरणे- शब्दलक्षणे छन्दसि पद्यवचनलक्षणनिरूपके निरुक्ते शब्दनिरुक्तप्रतिपादके ज्योतिषामयने - ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति, वाचनान्तरं ‘पञ्चयमपञ्चनियमयुक्तः' तत्र पञ्च यमा:- प्राणातिपातविरमणादयः नियमास्तु- शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा त्रिदण्डादीनि सप्त हस्ते गतानि यस्य स तथा तत्र कुण्डिका- कमण्डलू; क्वचित्काञ्चनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते, छण्णालकं-त्रिकाष्ठिका अङ्कुशो-वृक्षपल्लवच्छेदार्थः पवित्रकं-ताम्रमयमङ्गुलीयकं केसरी-चीवरखण्डं प्रमार्जनार्थं १ । 'संखाणं'ति साङ्ख्यमतं 'सज्जपुढंवित्ति कुमारपृथिवी २ ।' पयणं आरुहेड़' पाकस्थाने चुल्ल्यादावारोपयति उष्माणं- उष्णत्वं ग्राहयति ४ । 'दिट्ठि वमित्त ' मतं वमयितुं त्याजयितुमित्यर्थः । 'अट्ठाई'ति अर्थान् अर्यमाणत्वादधिगम्यमानत्वादित्यर्थः प्रार्थ्यमानत्वाद्वा याच्यमानत्वादित्यर्थाः वक्ष्यमाणयात्रायापनीयादीन्, तथा तानेव 'हेऊई 'ति हेतून्, अन्तर्वर्त्तिन्यास्तदीयज्ञानसम्पदो गमकत्वात्, 'पसिणाई'ति प्रश्नान् पृच्छ्यमानत्वात् 'कारणाई 'ति कारणानि विवक्षितार्थनिश्चयस्य जनकानि 'वागरणाई ति व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निष्पट्ठपसिणवागरण'ति निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि प्रश्नोत्तराणि यस्य स ५ । अ. ३ उद्यानत्रीअनुभवः .सू. ५३-५४ ।। १३४ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy