SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ।।१२९ ।। पव्वत्तित्तए अहन्नं देवाणुप्पियामं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति ।। सू. ६१ ॥ एवमीर्यासमित्यादिगुणयोगेनेति । 'पंचाणुव्वइयं' इह यावत्करणात् एवं दृश्यं 'सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं काहिसि। तऐ णं से सेलए राया थावच्चापुत्तस्स अणगारस्स अंतिए पंचाणुव्वइयं जाव उवसंपज्जइ, तए णं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं 'उवलद्धपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले ' क्रिया-कायिक्यादिका अधिकरणं-खड्गनिर्वर्त्तनादि एतेन च ज्ञानितोक्ता, 'असहेज्जे' अविद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सम्यक्त्वविचलनं प्रति न परसाहाय्यपेक्षते इति भाव, अत एवाह 'देवासुर-नागजक्खरक्खस-किन्नरकिंपुरुस गरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ . अणतिक्कमणिज्जे' देवा वैमानकज्योतिष्काः शेषा भवनपतिव्यन्तरविशेषाः गरुडा :- सुवर्णकुमाराः एवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निक्कंखिए- मुक्तदर्शनान्तरपक्षपातो निव्वितिगिच्छे-फलं प्रति निःशङ्क, लद्धट्ठे- अर्थश्रवणतः गहियट्ठे- अर्थावधारणेन पुच्छियट्ठे-संशये सति अहिगयट्ठे-बोधात् विणिच्छियट्ठे-ऐदम्पर्योपलम्भात् अत एव अट्ठिमिंजपेम्माणुरागरत्तेत्ति-अत्थीनि च प्रसिद्धानि मिखा च तन्मध्यवर्ती धातुरस्थिमिञ्जास्ता: प्रेमानुरागेण सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-अयमाउसो ! निग्गंथे पावयणे अट्ठे अयं परमठ्ठे सेसे 'अण्णट्टे 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं शेषं धन-धान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे उच्छ्रितं स्फटिकमिव स्फटिकं- अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परितुष्टमना इत्यर्थः इति वृद्धव्याख्या, केचित्त्वाहुः उच्छ्रित:- अर्गलास्थानादपनीय ऊद्ध्वकृतो न तिरश्चीन: कपाटपश्चाद्भागादपनीत इत्यर्थः . उत्सृतो वा अपगतः परिघः- अर्गला गृहद्वारे यस्यासौ उत्सृतपरिघः अच्छितपरिघो वा औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, ‘अवंगुयदुवारे’ अप्रावृतद्वारः कपाटादिभिर्भिक्षुकप्रवेशार्थमेव अस्थगितगृहद्वार इत्यर्थः इत्येकीयं व्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सद्दर्शनलोभेन कस्माच्चित्पाषण्डिकान्न बिभेति शोभनमार्गप्रतिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव: 'चियत्तंतेउरघरदारप्पवेसे' चियत्तत्तिना प्रीतिकरः अन्तःपुरगृहे द्वारेण प्रवेश: शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुत्वं चास्यानेनोक्तं, अथवा चियत्तोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकता सर्वत्रानाशङ्कनीयत्वादिति, 'चाउद्दसमुद्दिट्ठ- पुण्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणे' उद्दिष्टा- अमावास्या पौषधं आहारपौषधादिचतूरूपं 'समणे निम्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गह-कंबलपायपुंछणेणं' पतद्ग्रहः पात्रं पादप्रोञ्छनं रजोहरणं ८ ॥ १२९ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy