SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ॥१२१ ॥ 'जई 'त्यादि, सुगमं सर्व, नवरं 'मयंगतीरद्दहे ' त्ति मृतगङ्गातीरहदः मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, 'आनुपूर्व्येण' परिपाट्या सुष्ठ जाता वप्रा:-तटा यत्र स तथा गम्भीरं- अगाधं शीतलं जलं यत्र स तथा ततः पदद्धयस्य कर्मधारयः क्वचिदिदमधिकं दृश्यते 'अच्छविमलसलिलपलिच्छन्ने' प्रतीतं नवरं • भृतत्वात्प्रतिच्छन्न:- आच्छादितः क्वचित्तु 'संछन्ने' त्यादिसूचनादिदं दृश्यं 'संच्छन्नपउमपत्तभिसमुणाले ' संछन्नानि - आच्छादितानि पद्म पत्रैश्च-पद्मिनीदलैः बिशानि-पद्मिनीमूलानि मृणालानि च नलिननालानि यत्र स तथा क्वचिदेवं पाठः 'संछन्नपत्तपुप्फपलासे' संछन्नैः पत्र-पद्मिनीदलैः पुष्पपलाशैश्च कुसुमदलैर्यः स तथा 'बहुउप्पलकुमुयनलिण-सुभगसोगंधिय-पुंडरीयमहापुंडरीय सयपत्त- सहस्सपत्त- केसरफुल्लोवइए' बहुभिरुत्पलादिभिः केसरप्रधानैः फुल्लै:- जलपुष्पैरुपचित:-समृद्धो यः स तथा तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि चन्द्रबोध्यादीनि पुण्डरीकाणि-सितपद्मानि शेषाणि लोकरूढयाऽवसेयानि 'छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपत्थपुण्णे' अच्छं च विमलं च यत्सलिलं जलं पथ्यं हितं तेन पूर्ण: 'परिहत्थभमंत-मच्छकच्छभ-अणेगसउणगण-मिहुणपविचरिए' 'परिहत्थ 'त्ति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा ततः पदद्वयस्य कर्म्मधारय 'पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' इति प्राग्वत् १ । 'पावे'त्यादि, पापौ पापकारित्वात् चण्डौ क्रोधनत्वात् रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सू साहसिकौ साहसात् प्रवृत्तौ लोहितौ पाणी-अग्रिमौ पादौ ययोस्तौ तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनौ, आमिषं -मांसादिकमर्थयत-प्रार्थयतो यौ तौ तथा, आमिषाहारौ मांसादिभोजिनौ आमिषप्रियौ-वल्लभमांसादिकौ आमिषलोलौ-आमिषलम्पटौ आमिषं गवेषयमाणौ सन्तौ रात्रौ रजन्यां विकाले च सन्ध्यायां चरत इत्येवंशीलौ यौ तौ तथा दिवा प्रच्छन्नं चापि तिष्ठतः । 'सूरिए' इत्यादि, सूर्ये - भास्करे 'चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायां सन्ध्य 'पविरलमाणुस्संसि निसंतपडिनिसंतंसि 'त्ति कोऽर्थः प्रविरलं किल मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते - अत्यन्तं भ्रमणाद्विर . निशान्तेषु वा गृहेषु प्रतिनिश्रान्ते विश्रान्ते निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणंसि'त्ति सति २ । आबाधां-ईषद्वाधां प्रबाधां-प्रकृष्टां बाधां व्याबाधां वा छविच्छेदं शरीरच्छेदं, श्रान्तौ शरीरतः खिन्नौ तान्तौ मनसा परितान्तौ उभयतः 'ताए उक्किट्ठाए' इह एवं दृश्य 'तुरियाए चवलाए चंडाऐ सिग्घाए उद्धयाए जयणाए छेयाए 'त्ति तत्र उत्कृष्टा- कूर्माणां यः स्वगत्युत्कर्षः तद्वती त्वरितत्वं मनस औत्सुक्यात् चपलत्वं कायस्य चण्डत्वं संरम्भारब्धत्वात् शीघ्रत्वं अत एव उद्भुतत्वं अशेषशरीरावयवकम्पनात्, जयनीत्वं शेषकूर्म्मगतिजेतृत्वात् छेकत्वमपायपरिहारनैपुण्यादिति ३ । ज्ञातोपनयनिगमने च कण्ठये, केवलं 'आयरियउवज्झायाणं अंतिए पव्वइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टृत्य, विशेषोपनयनमेवं कार्यं - इह ८ ।। १२१ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy