________________
Man
'तए णं से' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्शार्थ: तस्य तु सामान्योक्तस्य विशेषावधारणार्थं का र आर्यजम्बूनामेति, स च उत्तिष्ठतीति संबन्ध; किम्भूत: सन्नित्याह- जायसद्धे' इत्यादि, जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्ध, क्व? -वक्ष्यमाणानां पदार्थानां अशाङ्गम् ।
तत्त्वपरिज्ञाने स तथा, जात: संशयोऽस्येति जातसंशय; संशयस्त्वनिर्धारितार्थं ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जात:-यथा भगवता E श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनभवनप्रकाशप्रदीपकल्पेन पञ्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽमिहित एवं षष्ठस्याप्युक्तोऽन्यथा वेति, ॥१२॥
तथा 'जातकुतूहलो' जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थ: विश्वस्यापि विश्वव्यतिकरस्य पञ्चमाङ्गेप्रतिपादितत्वात्पष्ठाङ्गस्य कोऽन्योऽर्थो भगवताऽभिहितो
भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्नश्रद्धः अथोत्पन्नश्रद्धत्वस्य छूट जातश्रद्धत्वस्य च कोऽर्थभेदो?, न कश्चिदेव, किमर्थं तत्-प्रयोग:? हेतुत्वप्रदर्शनार्थं, तथाहि उत्पन्नश्रद्धत्वा-ज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थ; अपरस्त्वाह-जाता श्रद्धा कई यस्य प्रष्टं स जातश्रद्धः कथं जातश्रद्धो?, यस्माज्जातसंशय: षष्ठाङ्गार्थ: पञ्चमानार्थवत् प्रज्ञप्त: उतान्यथेति, कथं संशयोऽजनि?, यस्मात् जातकुतूहल, कीदृशो नाम
षष्ठाङ्गस्याओं भविष्यति कथं च तमहमवभोत्स्ये? इति तावदवग्रह; एवं संजातोत्पन्नसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति, 'उठाए उढेइत्ति उत्थानमुत्था-ऊर्ध्व वर्त्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे'त्यादि प्रकटं, 'अज्जसुहम्मे थेरे' इत्यत्र षष्ठयर्थे सप्तमीति 'तिखुत्तो'त्ति त्रिकृत्वस्त्रीन् वारान् । 'आदक्षिणप्रदक्षिणां' दक्षिणपार्खादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरादक्षिणप्रदक्षिणा तां 'अज्जसुहम्मं थेरं' इत्यत्र पाठान्तरे ई आदक्षिणात्प्रदक्षिणो-दक्षिणपार्श्ववर्ती य: स तथा तं 'करोति' विदधाति वन्दते-वाचा स्तौति नमस्यति-कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः XR 'सुस्सूसमाणे'त्ति श्रोतुमिच्छन् 'नमंसमाणे'त्ति नमस्यन् प्रणमन् अभिमुख: 'पंजलिउडे'त्ति कृतप्राञ्जलि: विनयेन प्रणमति-उक्तलक्षणेन ‘पज्जुवासमाणे'त्ति व पर्युपासनां विदधान: ‘एव'मिति वक्ष्यमाणप्रकारं 'वदासित्ति अवादीत् यदवादीत्, तदाह 'जईत्यादि प्रकटं नवरं यदि भदन्त ! श्रमणेन
पञ्चमाङ्गस्यायमर्थ:-अनन्तरोदितत्वेन प्रत्यक्ष: प्रज्ञप्तस्तत: षष्ठाङ्गस्य कोऽर्थ: प्रज्ञप्त इति प्रश्नवाक्यार्थ; अथोत्तरदानार्थं 'जम्बूनामेत्ति हे जम्बू ! न इति-एवंप्रकारेणामन्त्रणवचसाऽऽमन्त्र्य आर्यसुधर्मा स्थविरः आर्यजम्बूनामानं अनगारमेवमवादीत्-'नायाणि'त्ति ज्ञातानि-उदाहरणानीति प्रथम: श्रुतस्कन्धः
'धम्मकहाओ'त्ति धर्मप्रधाना: कथा: धर्मकथा इति द्वितीय: 'उक्खित्ते'त्यादि श्लोकद्वयं सार्द्ध, तत्र मेघकुमारजीवेन हस्तिभवे वर्तमानेन य: पादर का उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुत्क्षिप्तमेवोच्यते, उत्-क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातं ज्ञातता चास्यैवं