SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहा णायाणि य धम्मकहाओ य, [जति णं भंते ! समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयखंधा पन्नत्ता तंजहा-णायाणि य धम्मकहाओ य,] पढमस्स णं भंते! सुयकखंधस्स समणेणं ॥११॥ जाव संपत्तेणं णायाणं कति अज्झयणा पन्नत्ता?, एवं खलु जंबू! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पन्नत्ता, तंजहा-उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे५ । तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ॥१॥ दावहवे ११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ । नंदीफले १५ अवरकंका १६, आइण्णे १७ सुसुमा इय १८ ॥२॥ अवरे य पुंडरीयणायए एई १९ एगुणवीसतिमे ।सू०५। 'तए णं'त्ति ततोऽनन्तरं णमित्यलंकारे चम्पाया नगर्या; परिषत्-कूणिकराजादिका निर्गता-नि:सृता सुधर्मस्वामी-वन्दनाथ, जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगए'त्ति यस्या दिश: सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थ: तामेव दिशं प्रतिगतेति । तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेवासी आर्यजम्वूनामानगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छयो यावत्-करणादिदं दृश्यं 'समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकष-कषपट्टे रेखालक्षण: तथा पम्ह'ति पद्मगर्भस्तद्वत् गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्य: पुलक:-सारो वर्णातिशय: तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहुलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौर; तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकृत्वा, तथा तत्ततवे' तप्तं-तापितं तपो येन सतप्ततपा; एवं तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्मापि तपोरूप: संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति तथा महातपाः-प्रशस्ततपा बृहत्तपा वा, तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेज: कर्मेन्धनदाहकत्वात्, तथा उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे" इति पूर्ववत्, एवंगुणविशिष्टो जम्बूस्वामी to भगवान् आर्यसुधर्मण: स्थविरस्य 'अदूरसामंते'त्ति दूरं-विप्रकर्ष: सामन्तं-समीपं उभयोरभावोऽदूरसामन्तं तस्मिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः कथं ? -'उड्ढुंजाणू' इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासन: सन्नपदिश्यते ऊद्धर्वं जानुनि यस्य स ऊध्र्वजानु: अध: शिरा: नि अधोमुखो नोर्ध्व तिर्यग् वा विक्षिप्तदृष्टिः किं तु नियतभूभागनियमितदृष्टिरिति भावना, 'झाणकोट्ठोवगए'त्ति ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगत; यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः, व संयमेन-संवरेण तपसा-ध्यानेनात्मानं भावयन्-वासयन् विहरति-तिष्ठति । ॥११॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy