SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ॥१०१॥ सहस्सपत्ताई ताई गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं सुबहुं पुष्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणघरए य तेणेव उवागच्छंति २ तत्थ णं नागपडिमाण यजाववेसमणपडिमाण य आलोए पणामं करेइईसिं पच्चुन्नमइ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उदगधाराए अब्भुक्खेति २ पम्हल-सुकुमालाए गंधकासाईए गायाई लूहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणंच करेति २ जाव धूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासी-जइ णं अहं दारगं वा दारिगं वा पयायामि तो णं अहं जायं च जाव अणुवड्डेमित्ति कट्ट उवातियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्थवाही चाउद्दसट्ठमुद्दिवपुन्नमासिणीसु विपुलं असणं ४ उवक्खडेति २ बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं च णं विहरति २ ॥सूत्रं ४१॥ __'कुडुंबजागरियं जागरमाणीए'त्ति कुटुम्बचिन्ताया जागरणं-निद्राक्षय: कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात् तया 'जाग्रत्या' विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्या: 'पयायामि'त्ति प्रजनयामि ‘यासिं मन्ने' इत्यत्र तासां सुलब्धं जन्म जीवितफलं अहं 'मन्ये' वितर्कयामि यासां निजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षि-संभूतानि डिम्भरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लापकानि मन्मनं-स्खलत्प्रजल्पितं येषां - तानि तथा स्तनमूलात्कक्षादेशभागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि ददति समुल्लापकान् सुमधुरान्, 'एत्तो एगमवि न पत्त'त्ति इत: पूर्वं एकमपि- डिम्भकविशेषण- कलापादेकमपि विशेषणं न प्राप्ता, बहिया नागघराणि येत्यादि प्रतीतं, 'जण्णुपायवडिय'त्ति जानुभ्यां पादपतिता जानुपादपतिता जानुनी भुवि विन्यस्य प्रणतिं गतेत्यर्थः । 'जायं वे'त्यादि याग-पूजां दायं- पर्वदिवसादौ दानं भागंलाभांशं अक्षयनिधि-अव्ययं भाण्डागारं अक्षयनिधिं वा-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीतां वर्द्धयामि-पूर्वकाले अल्पं सन्तं महान्तं करोमीति भावः ‘उववाइय'ति उपयाच्यते-मृग्यते स्म यत्तत् उपयाचित- ईप्सितं वस्तु ‘उपयाचितुं' प्रार्थयितुं १ । - 'उल्लपडसाडय'त्ति स्नानेनार्दै पटशाटिके उत्तरीयपरिधानवस्त्रे यस्याः सा तथा 'आलोएत्ति दर्शने नागादिप्रतिमानां प्रणामं करोति, तत: प्रत्युन्नमति, ई लोमहस्तं-प्रमार्जनीकं परामृशति' गृह्णाति, ततस्तेन ता: प्रमार्जयति 'अब्भुक्खेइत्ति अभिषिञ्चति वस्त्रारोपणादीनि प्रतीतानि २ ॥सू०४१ ॥ ॥१०१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy