________________
।।९३।।
*****
विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिन - स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वै मोहं गताः । आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा - स्तेषामिन्द्रियनिग्रहः कथमहो ! दम्भः समालोक्यताम् || १॥ इति श्रुत्वा सूरिभिरूचे, न चैवंविधमाहारमाहारयन्ति मुनयः । तेषां तृतीयपौरुष्यां गुर्वनुज्ञयाऽन्तप्रान्तरूक्षस्वल्पाहारित्वात् रागाद्युत्पत्तौ निषिद्धत्वादाहारस्य । यतः --
अहव न जिमिज रोगे, मोहुदये सयणमाइउवसग्गे । पाणिदयातवहेडं, अंते तणुमोयणत्थं च ।। १ ॥ न चैकान्तेनाजितेन्द्रियत्व कारणमाहारः, किन्तु मोहनीयकर्मणः प्रकृतिरपि तीव्रतीव्रतरमन्दमन्दतरादिभेदा तथा चसिंहो बली द्विरदशूकरमांसभोजी, संव्वत्सरेण रतिमेति किलैकवारम् ।
पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ।। १ ।।
इति तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते प्रमुदितो नृपः । पुनः कियद्दिनेषु गतेषु केनापि मत्सरिणाऽभाणि राजन् ! एते जैनाः प्रत्यक्षदेवं सूर्यं न मन्यते । तत्र सूरिभिरुक्तम् - अधाम धामधामैव, वयमेव हृदि स्थितम् । यस्यास्तव्यसने प्राप्ते, त्यजामो भोजनोदके ।। १ ।। यस्यास्ते सत्यापोऽपेया एव, यतः स्कन्दपुराणान्तर्गत रुद्रप्रणीत कपालमोचनस्तोत्रे - त्वया सर्वमिदं व्याप्तं, ध्येयोऽसि जगतां रवे ! । त्वयि चास्तमिते देव ! आपो रुधिरमुच्यते ॥ | १ || त्वत्करैरेव संस्पृष्टा, आपो यान्ति पवित्रताम् । इति ॥
1
यदि नीरस्य रुधिरता रात्री तंत्र भोजनं कथं क्रियते ? शुद्धिकारिणो जलस्यैवंभावित्वादिति प्रामाण्याद्वयमेव सूर्य
******
।।९३।