________________
प्रबन्धः
जिज्ञासा, मुमुक्षोरिव वल्गति ॥ १।। प्रायो नपाः प्राप्तमपि धर्म न कुर्वते राज्यमदमत्ताः । यतःकुमारपाल "नाचरन्ति सदाचारं, न शृण्वन्ति हितं वचः । न पश्यन्ति पुरः पूज्यं, क्षीबा इव महीधवाः ॥ १॥"
हे कुमार ! चेत्त्वं भुक्तिमुक्तिदं धर्ममिच्छसि तदा एष एव सूरिः सर्वदेवावतारोऽजिह्मब्रह्मचारी आबाल्यादपि चारित्री ॥९२॥
सकलस्वपरसमयपारदृश्वा ब्रह्मेव क्ष्मातलेऽधुना जयति ।। नृप! त्वमेतदादिष्टं, तन्वन् स्वेष्टमवाप्स्यसि । इत्यादिश्या तिरोऽधत्त, धूर्जटिः स्वप्नदृष्टवत् ॥ १॥ विस्मेरो नपः सरिमचे, त्वमेव मेऽसीश्वरो यस्य महेश्वरोऽपि वश्यः ।। अतः प्रभृति मे देवो, गुरुस्तातः सवित्र्यपि । सहोदरो वयस्यश्च, त्वमेवैकोऽसि नापरः ।। १ ।। इह लोकः पुरादायि, मह्यं जीवितदानतः । शुद्धधर्मोपदेशेन, परलोकोऽद्य दीयताम् ॥ २ ॥ सूरिराह--यद्यवं तर्हि मद्यमांसाद्यभक्ष्यनियमं गृहाण । यतो जीवदया जीवितत्वाद्धर्मस्य । मांसभक्षिणः कूतो दया ? नहि मांसादि जीववधमन्तरेणेति । ततो मुदिताशंय पुण्याहं
मन्यमानोऽभक्ष्यनियमं देवगुरुसाक्षिकं शिवोपर्युदकं विमुच्य जग्राह । क्रमेण समहोत्सवं पत्तनमलञ्चकार । तदनु सोमेॐ शवाणी मनसा स्मरन् कदाचिद्वसति गत्वा कदाचित्सदस्याकार्य श्रीसूरीस्तत्पार्श्वे शुद्धधर्मरसमपात् । यतः
विना गुरुभ्यो गुणनीरधिभ्या, जानाति धर्म न विचक्षणोऽपि ।
आकर्णदीर्घोज्ज्वललोचनोऽपि, दीपं विना पश्यति नान्धकारे ।। १ ॥ अथैवं तत्र यातायाते जायमाने गुरुगुणग्राम गृहाने भूपतौ पुरोधा विरोधादित्यभ्यधात्, अमीन नमस्कारार्हाः, अजितेन्द्रियत्वात् । कथम् ? इति राज्ञा पृष्ट प्राह