________________
कुमारपाल
प्रबन्धः
॥९४॥
मन्यामहे तत्त्वतः । उक्तं च केनापि-- _ पयोदपटलैश्छन्ने, नाश्नन्ति रविमण्डले । अस्तंगते तु भुञ्जानाः, अहो ! भानोः सुसेवकाः ॥ १ ॥
हे राजन् ! नायं सूर्यः, किन्तु सूर्यविमानं मण्डलाकारम् । यस्त्वेतत्पतिः स सूर्येन्द्रः श्रीजिनपतिपदभक्त एवेति ज्ञेयं तत्त्वदृष्टया । कदाचित् केनाप्युक्तम्, एतेऽवैष्णवा, विष्णुमन्तरेण न मुक्तिप्राप्तिरिति श्रुत्वाऽज्ञातपरमार्थो नपः श्रीगुरु पृष्टवान् । गुरुरपि, हे राजन् ! सत्यमिदं, परं वैष्णवा जैना महर्षय एव सम्यागविष्णुभक्तिकारकत्वात् । यतो गीतायामर्जुनाग्रे विष्णुवाक्यम्
पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेष्वहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ।। १ ।।
यो मां सर्वगतं ज्ञात्वा, न च हिंस्येत्कदाचन । तस्याहं न प्रणंक्ष्यामि, स च मां न प्रणंक्ष्यति ।। २ ।। तथा विष्णुपुराणे तृतीयेशे सप्तमाध्याये पराशरः प्राह
यज्ञान् यजन् यजत्येन, जपत्येनं जपन्नप!। घ्नंस्तथाऽन्यान हिनस्त्येन', सर्वभूतो यतो हरिः ।। १॥ परदारपरद्रव्य--परहिंसासु यो मतिम् । न करोति पुमान भूप!, तोष्यते तेन केशवः ॥ २॥ यथात्मनि च पुढे च, सर्वभूतेषु यस्तथा। हितकामो हरिस्तेन, सर्वदा तोष्यते सुखम् ।। ३ ।। । यस्य रागादिदोषेण, न दुष्टं नृप ! मानसम् । विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ।। ४ ।।
तत्रैव यमकिङ्करसंवादे यमः
XXXXXXXXXXXXXXXXXXXXXXXX
॥९४॥