________________
॥९५॥
न चलति निजवर्णधर्मतों यः, सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैः, स्थिरमनसं तमवेहि विष्णुभक्तम् ॥१॥ विमलमतिरमत्सरः प्रशान्तः, शुचिचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो, वसति सदा हृदि तस्य वासुदेवः ॥ २ ॥ स्फटिकमणिशिलाऽमलः क्व, विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः । न हि तुहिनमयूखरश्मिपुळे, भवति हुताशनदीप्तिजः प्रतापः ।। ३ ॥
हिरण्यकशिपुं पितरं प्रति प्रह्लादः प्राह-- उामस्त्युदकेषु चास्त्युडुपतावस्त्यस्ति चोष्णधु तो, वह्नौ दिक्षु विदिक्षु वायुनभसोस्तिर्यक्ष्वतिर्यक्षु च । अस्त्यन्तर्बहिरस्ति सत्यतपसोः सारेष्वसारेषु वा, सर्वत्रास्ति सदास्ति किं बहुगिरा त्वय्यस्ति मय्यस्ति च ।।१।। इत्यादि।।
एवं तत्त्ववृत्त्या सर्वजीवरक्षका जैनमुनयो वैष्णवाः, न तु द्विजास्तद्विपरीताः । परमार्थतो विष्णुः स एव, यो जन्ममरणादिव्यतीतो, नित्यश्चिदानन्दमयो, ज्ञानात्मना व्याप्नोतीति विष्णुः, इति निरुक्तेजिन एव विष्णुः, तद्भक्तानां मुक्तिरेवेति निश्चयः । हे चौलुक्यराज ! अत्रायं परमार्थः--जीवो बहिरात्माऽन्तरात्मपरमात्मभेदेन त्रिधा । स्वशुद्धात्मसंवित्तिसमुत्पन्नवास्तवसुख प्रतिपक्षभूतेन्द्रियादिसुखासक्तो बहिरात्मा । अथवा हेयोपादेयविचारपरस्परसापेक्षनयविभागज्ञानश्रद्धानरहितो बहिरात्मा। एतद्विपरीतोऽन्तरात्मा । विमलकेवलज्ञानज्ञातलोकालोकस्वरूपो ज्ञानात्मना व्यापकत्वेन
KXXXXXXXXXXXXXXXXXXXXXXXXXXX
।।९५।