________________
- धनेन क्रायको हन्ति, उपभोगेन खादकः । घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ।। १ ।। यथा मांसं तथा मद्य, ति
वैकल्यायु प्रदूषणम् । ज्ञात्वा ते वर्जयेत् प्राज्ञः, प्रेयः श्रेयःसमीहया ॥ २ ॥ तस्मात्स्वेप्सितसिद्धयर्थ, मद्यमांसं च वर्जय । ॥८९॥ इत्युक्तो गुरुणा भूपस्तदभिग्रहमग्रहीत् ।। ३ ।। नृपोऽसौ वीरकोटीरः, स्वर्णकोटीरनेकशः । कर्मस्थायाऽनिशं प्रेषीत्,
स्वारब्धे को हि नोद्यमी ? ॥ ४ ।। अब्दद्वयेन तच्चत्यनिष्पत्त्याऽऽनन्दितो नृपः । नियमं तं परित्यक्तुं, सूरीन्द्रमनुयुक्तवान ॥ ५ ॥ सूरिराह-चैत्ये निष्पन्नेऽपि नियमः शिवयात्रायां मोक्तुं युक्तः । एवमङ्गीकृते श्रीसूरिः स्वस्थानं प्राप । चौलुक्योऽपि सभायां सरिगणग्रहणमकार्षीत । तन्निशम्य पुरोधाः ऋधा प्रज्वलितः प्राह, राजन ! एष शठवत्तिर्देवचित्तवशीकरणाय त्वदिष्टं वक्ति, परमात्मनां धर्मे द्विष्टवन्नैव रज्यति, यद्यवं न तदैषोऽपि सोमेशं नमस्यितुमाकारितो देवेन सहायातु, परमुक्तोऽपि नैष्यत्येवेति । युक्तं च लघुचेतसामेतत् । यतः
सुकुमारमहो! लघीयसां, हृदयं तन्दतमप्रियं यतः । सहसैव समुद्गिरन्त्यमी, जरयन्त्येव हि तन्मनीषिणः ।। १ ।। Ka ततः प्रातः सभायातान् सूरीन् पुरोधोवचःपरीक्षार्थं सोमेशयात्रायै प्रार्थितवान् । तत्कथंचित् परिज्ञाय, दुरात्मत्वं
पुरोधसः । चौलुक्यमाहतीकतुं, कथयामास सूरिराट् ॥ १ ॥ बुभुक्षितोऽपि कि राजन् ! भोजनाय निमन्त्र्यते । महात्माऽपि किमत्यर्थ, यात्रार्थ क्वचिदर्थ्यते ॥ २ ॥ इदमेवास्ति मे कृत्यं, यत्तीर्थपरिशीलनम् । क्षणोऽपि व्यथते मां तद्विना द्य तगतार्थवत् ॥ ३ ॥ एवं सूरिवचसाऽमावास्यावतारं मषीलिप्तमिव मुखं चकार पुरोहितः ।। भूभग जगाद यद्यवं, तद्गृहाण सुखासनम् । सूरिणोचे ममानेन, कि कार्य पादचारिणः ? ।। ४ ।। गहस्थोऽपि विविक्तात्मा, विना यानेन
॥८
॥