SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ किमपि धर्मस्थानं भवदादिष्टं कारयामीति विचारावसरे सोमनाथीया देवपत्तनवासिनोऽर्चकाः समेत्य राजानं व्यजिज्ञपन । यथा-प्रासादः सोमनाथस्य जीर्णकाष्ठत्वतोऽधुना। पतन्नस्त्यधिकल्लोलैः खातमूलस्तटद्वत् ॥१॥ भवात् प्रबन्धः । - स्वोद्धारवद्देव ! तदुद्धारः क्रियेत चेत् । तदा कोशे वसेत्पुण्यं लोके कीर्तिश्च शाश्वती ॥ २॥ तदुक्तमुररीकृत्य प्रेष्य | पञ्चकुलं निजम् । चैत्यमाश्मं नृपस्तत्र सूत्रधारैरमण्डयत् ॥३॥ तदा च चैत्यशीघ्रनिष्पत्तये श्रीसूरि पप्रच्छ । सूरिरपि राजप्रतिबोधचिकीर्लब्धावसरः प्राह, राजन ! निर्विघ्नशीघ्रनिष्पत्तये किचिन्महदव्रतमाद्रीयते, व्रतं च ब्रह्मचर्यरू | अथेदं दुर्धरं तहि मांसनिषेधः सर्वपुण्यमूलं क्रियते । यदाह____ न विना जीवघातेन, मांसं भवति कुत्रचित् । जीवघातस्तु न श्रेयांस्तस्मान्मांसं परित्यजेत् ।।२॥ न भक्षयति यो मांसं, न हन्यान्न च घातयेत् । स मित्रं सर्वभूतानां, मनुः स्वायंभुवोऽब्रवीत् । २॥ मनुस्मृतौ ॥ वर्षे वर्षेऽश्वमेधेन, यो यजेत शतं समाः । मांसानि च न खादेत, तयोः पुण्यफलं समम् ॥१॥" स्कन्दपुराणे ।। 9 भोक्ताऽनुमन्ता संस्कर्ता, ऋयिविक्रयिहिंसकाः । उपकर्ता घातयिता, हिंसकश्चाऽष्टधाऽधमः ॥ १॥ यः स्वार्थ मांसपचन, कुरुते पापमोहितः । यावन्ति पशुरोमाणि, तावत्स नरकं व्रजेत् ।।२।। परप्राणैस्तु ये प्राणान्, स्वान पुष्णन्ति हि दुधियः । आकल्पं नरकान भक्त्वा, ते भूज्यन्तेऽत्र तैः पूनः ।। ३॥ जातु मांसं न भोक्तव्यं, प्राणः कण्ठगतैरपि ।। भोक्तव्यं तर्हि भोक्तव्यं, स्वमांसं नेतरस्य च ।। ४ ।। क्व मासं क्व शिव भक्तिः, क्ब मद्य व शिवार्चनम्?। मद्यमांसरतानां ॥८८ हि, दूरे तिष्ठति शङ्करः ॥ ५॥ स्कन्दपुराणे ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy