________________
॥८७||
यणौ कृतौ । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः 'कविबान्धवः' इति नाम बभार ।। एवं सरस्वतीलक्ष्मीलीलादुर्ललितः स्वयम् । निष्कण्टकां भुवं कृत्वा, राज्यं प्राज्यं करोति स, ।। १।। ___अथान्यदा श्रीचौलुक्यः प्रातरास्थाने पुरुषोन्नतहैमासनसमासीनः द्वासप्ततिसामन्तषत्रिंशद्राजकुलानेककविव्यासपुरोहितराजगुरुमन्त्रिपौरजनसेव्यमानः श्वेतातपत्रोभयपार्श्वचाल्यमानचामरश्रेणिशोभमानः स्वसमीपस्थहेमासनस्थितश्रीहेमसूरीन पृष्टवान् । हे मुनिराज ! स कोऽति सत्कृत्यप्रकारो जगच्चमत्कारकारी प्रकाश्यतां, येन युधिष्ठिरविक्रमभोजादिवन्ममापि नाम कल्पान्तस्थायि भवेत् । यतः
इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशये, वराहो राहुर्वा प्रभवति चमत्कारविषयः । महीमेको मनां यदयमवहद्धन्त ! सलिले, शिरःशेषः शत्रून्निगलति परः संत्यजति च ॥१॥ परिवर्तिनि संसारे, मृतः को वा न जायते । स जातो येन जातेन, याति वंशः समुन्नतिम् ॥२॥ तदनु श्रीसूरिराह, राजन् ! चौलुक्यकुलप्रदीप! जगति कल्पान्तस्थायिनी कीर्तिर्वाभ्यामेव प्रकाराभ्यां स्यात्, नाऽन्यथा । तथाहि
जगदनुणतां नीत्वा सम्यग् धनैरतिपुष्कलै- वनविदितं धर्मस्थानं विधाय च किंचन । विशदवदना आशाः कत्वा यशोभिरनश्वरै-लिखति निजकामाख्यां साक्षाद धो विधमण्डले ॥ १॥ इति निशम्य राजाह, भगवन् ! जगदनणीकारभाग्यं तादृशधनादिसामग्रीसाध्यं श्रीगुरुपादप्रासादायत्तं वर्तते, परं
॥८७॥