________________
+
प्रबन्धः ।
हमारपाल
॥८६
तान्तरात्मा देवतावसरं कृतवान् । अथाऽन्यदा सर्वावसरस्थिते श्रीचौलुक्यदेवे केनापि विदुषा पठितः श्लोको भूपमुद्दिश्य । यथापर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये, जीव्यते न तु भूपतौ ।। १ ।। मिटमार्ण्य 'राज्ञो मेघ उपम्या' इति श्री
माकर्ण्य 'राज्ञो मेघ उपम्या' इति श्रीकुमारभूपेनाभिहिते सर्वव्याकरणेष अपप्रयोगे सर्वेष्वपि सामाजिकेष न्युञ्छनानि कुर्वाणेषु मन्त्रिकपर्दी लज्जयाऽधोमुखो जातः । राजा तं तथा ज्ञात्वा पृष्टवान् । विज्ञप्तं तेन, देव ! 'उपम्याशब्दः' शब्दशास्त्रविरुद्धः, तस्मिन् प्रयुक्ते श्रीदेवेनास्माकमधोमुखत्वमेव युक्तम् । 'वरमराजकं भुवनं न तु मूर्यो राजा' इति प्रतीपभूपालमण्डलेष्वपकीर्तिः प्रसरति । अतोऽस्मिन्नर्थे 'उपमानं, औपम्यं, उपमा' इत्याद्याः शब्दाः शुद्धाः, इति तद्वचनप्रेरितेन शब्दव्युत्पत्तिहेतवे पञ्चाशद्वर्षदेश्येन राज्ञा श्रीप्रभुपादान् पर्युपास्य तत्प्रसादितसिद्धसारस्वतमन्त्राराधनसारस्वतचूर्णसेवनादिभिः सुप्रसन्नश्रीभारतीप्रसादाद्वत्तित्रयकाव्यपञ्चका दिशास्त्राणि एकेन वर्षेणावगम्य विचारचतुर्मुखविरुदजितम् । अथाऽन्यदा सपादलक्षीयभूपतेः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामुपेतो राज्ञा भवत्स्वामिनः कुशलमिति पृष्टः । स च मिथ्याभिमानी विश्वं लातीतिः, विश्वलः, तस्य को विजयसन्देहः ? राज्ञा प्रेरितेन श्रीमता कपर्दिमन्त्रिणा 'श्वलश्वल्ल आशुगतौ' इति धातोविरिव श्वलतीति नश्यतीति विश्वलः । तदनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तं इति । राजा 'विग्रहराजः' इति पण्डितमुखान्नाम बभार । परस्मिन् वर्षे स एव प्रधानः श्रीकुमारपालनपतेः पुरो 'विग्रहराजः' इति नाम विज्ञपयन मन्त्रिणा कपर्दिना विग्रो. विगतनासिकः, एवंविधौ हराजौ रुद्रनारा
॥८६॥