SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ॥८५॥ तत्र वह्निमयं यन्त्रं सञ्जयित्वैव पूर्ववत्त । दुष्टो विक्रमसिंहोऽगाद्गुर्जराधीशसंनिधौ ॥१॥ अत्यर्थमर्थनात्तस्य भुत्त्क्यर्थ पार्थिवः पुनः । तं क्रूरं ज्ञातवान् विज्ञा विदन्ति हि पराशयम् ।। २ ।। मल्लस्तं बन्धयित्वा द्राग् वह्नियन्त्रविलोकनात् । प्रकाश्य तत्कृतं छद्म तत्सद्माऽज्वालयन्नृपः ।। ३ ।। उत्तार्याङ्गानि सर्वाणि मल्लरास्तरणोज्झिते । अनस्यारोप्य च क्रुद्धस्तं. सहाचालयत्ततः ।। ४ ।। स तथा शकटस्थास्नुः पर्यटन् स्वपुरे पथि । खाट्कारप्रस्फुरन्मूर्द्धा निस्सीमामन्वभूद्वयथाम् ।।५।। मार्गे भृशमाक्रन्दतस्तस्याधस्तात्तृणास्तृतिः कारिता। महोत्सवपूर्व पत्तनमाजगांम । त्वत्प्रतिज्ञा पूरिता इति कृतकृत्यां देवल्लदेवीं तोषयामास ।। प्रहिताऽप्यभिमानेन प्रेयोधाम जगाम न । तप्यमाना तपः किन्तु सा तस्थौ बन्धुसन्निधौ ।।१।। ततः सर्वावसरे तं विक्रमसिंहमाकार्य द्वासप्ततिसामन्तसमक्षं हक्कयित्वा मल्लैः सजीकृत्य कारागारे निक्षिप्तवान् । तद्राज्याधिपं तस्य भ्रातृव्यं यशोधवलनामानं कृतवांश्च । अथैवं निष्कण्टकं राज्यं कुर्वन् देवतावसरेऽनेकसामन्तमन्त्रिणमहामन्त्रिसार्थवाहादिपरिवतः श्रीजयसिंहदेववृद्धमन्त्रिणः पप्रच्छ, यदहं श्रीसिद्धनपतेहीनः समानोऽधिको वा ? मन्त्रिभिरच्छप्रार्थनापूर्वं सिद्धनृपतेरष्टनवतिर्गुणाः, द्वौ दोषौ, स्वामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः, इति मन्त्रिवाक्यादनुदोषमये आत्मनि विरागं दधानो यावच्छुरिकायां चक्षुः क्षिपति तावत्तदाशयवेदिभिस्तैरेवं व्यज्ञपि, श्रीकुमारपालनरेन्द्र ! अस्माभिर्बहिर्वृत्त्या विचार्यैवमुक्तं, परं तत्त्ववृत्त्या तु देव एवाधिकः । राजा, कथम् ? मन्त्रिभिरुक्तम्, सिद्धनृपतेरष्टनवतिर्गुणाः संग्रामाऽसुभटतास्त्रीलम्पटतादोषाभ्यां तिरोहिताः । कार्पण्यादयो देवदोषास्तु समरशूरतापरनारीसहोदरतागु| णाभ्यामपहुताः, इति देव एव सर्वगुणशिरोमणिः सत्त्वपरस्त्रीबान्धवतादिगुणाधार इति मन्त्रिवचःश्रवणसंतोषि ॥८५॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy