________________
॥८५॥
तत्र वह्निमयं यन्त्रं सञ्जयित्वैव पूर्ववत्त । दुष्टो विक्रमसिंहोऽगाद्गुर्जराधीशसंनिधौ ॥१॥ अत्यर्थमर्थनात्तस्य भुत्त्क्यर्थ पार्थिवः पुनः । तं क्रूरं ज्ञातवान् विज्ञा विदन्ति हि पराशयम् ।। २ ।। मल्लस्तं बन्धयित्वा द्राग् वह्नियन्त्रविलोकनात् । प्रकाश्य तत्कृतं छद्म तत्सद्माऽज्वालयन्नृपः ।। ३ ।। उत्तार्याङ्गानि सर्वाणि मल्लरास्तरणोज्झिते । अनस्यारोप्य च क्रुद्धस्तं. सहाचालयत्ततः ।। ४ ।। स तथा शकटस्थास्नुः पर्यटन् स्वपुरे पथि । खाट्कारप्रस्फुरन्मूर्द्धा निस्सीमामन्वभूद्वयथाम् ।।५।।
मार्गे भृशमाक्रन्दतस्तस्याधस्तात्तृणास्तृतिः कारिता। महोत्सवपूर्व पत्तनमाजगांम । त्वत्प्रतिज्ञा पूरिता इति कृतकृत्यां देवल्लदेवीं तोषयामास ।। प्रहिताऽप्यभिमानेन प्रेयोधाम जगाम न । तप्यमाना तपः किन्तु सा तस्थौ बन्धुसन्निधौ ।।१।।
ततः सर्वावसरे तं विक्रमसिंहमाकार्य द्वासप्ततिसामन्तसमक्षं हक्कयित्वा मल्लैः सजीकृत्य कारागारे निक्षिप्तवान् । तद्राज्याधिपं तस्य भ्रातृव्यं यशोधवलनामानं कृतवांश्च । अथैवं निष्कण्टकं राज्यं कुर्वन् देवतावसरेऽनेकसामन्तमन्त्रिणमहामन्त्रिसार्थवाहादिपरिवतः श्रीजयसिंहदेववृद्धमन्त्रिणः पप्रच्छ, यदहं श्रीसिद्धनपतेहीनः समानोऽधिको वा ? मन्त्रिभिरच्छप्रार्थनापूर्वं सिद्धनृपतेरष्टनवतिर्गुणाः, द्वौ दोषौ, स्वामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः, इति मन्त्रिवाक्यादनुदोषमये आत्मनि विरागं दधानो यावच्छुरिकायां चक्षुः क्षिपति तावत्तदाशयवेदिभिस्तैरेवं व्यज्ञपि, श्रीकुमारपालनरेन्द्र ! अस्माभिर्बहिर्वृत्त्या विचार्यैवमुक्तं, परं तत्त्ववृत्त्या तु देव एवाधिकः । राजा, कथम् ? मन्त्रिभिरुक्तम्, सिद्धनृपतेरष्टनवतिर्गुणाः संग्रामाऽसुभटतास्त्रीलम्पटतादोषाभ्यां तिरोहिताः । कार्पण्यादयो देवदोषास्तु समरशूरतापरनारीसहोदरतागु| णाभ्यामपहुताः, इति देव एव सर्वगुणशिरोमणिः सत्त्वपरस्त्रीबान्धवतादिगुणाधार इति मन्त्रिवचःश्रवणसंतोषि
॥८५॥