________________
प्रबन्धः
र्णोराजगजस्कन्धमारूढः करिगुडां छित्वा भूमौ पातयित्वा हृदि पदं दत्त्वा रे वाचाट! स्मरसि वचो मम भगिन्याः ?, कुमारपाल पूरयामि तस्याः प्रतिज्ञां, छिनद्मि ते जिह्वामित्युवाच । तदा च
केशरिक्रमणाक्रान्तभृगवन्मृत्युसम्मुखः । चाहुमानस्तमचे च रस-रक्ष शरण्य ! माम् ।।१।। अवस्थया तया वाचा तया ॥८४॥
BAI च सकृपो नपः । हृदयात्पादमुत्तार्य कथयामास तं प्रति ।। २ ।। कृपया त्वं विमुक्तोऽसि जीवन परमिदं त्वया । अवटौ
रसनाकृष्टिचिह्न धार्य स्वनीवति ।। ३ ॥ इयच्चिरं भवद्देशे शीर्षाच्छादनमम्बरम् । वामदक्षिणतो जिह्वायुगास्तेऽतः परं BAN पुनः ।। ४ ।। पश्चादपि स्फुरजिह्व तत्कार्य मनिदेशतः । यथा भग्नीप्रतिज्ञायाः पूतिः प्रख्यायते क्षितौ ।। ५ ।। कुलकम् ।।
ततः काष्ठपञ्जरे क्षिप्त्वा दिनत्रयं स्वसैन्ये स्थापितः। जयातोद्यानि निर्घोषितानि सर्वत्र । सामन्ताश्च लज्जिताः कम्पिताश्च । परं श्रीगूर्जराधिपो गम्भीरत्वानोपालभत तान् । आनाकोऽपि कृपया पुनः शाकम्भरीपतिः कृतः । उत्खातप्रतिरोपितव्रताचार्यो हि श्रीकुमारपालः । मेडतकं सप्तवारं भग्नम् । पल्लीकोट्टभूमौ रुषाऽऽकमुप्तम् । पुरा मालवीयनृपैर्गुर्जरदेशे प्रासा
दाः पातिताः । पापभीरुणा श्रीकुमारेण वाग्भटमन्त्रिवचसा तिलपीडनपाषाणयन्त्राणि भग्नानि । शाकम्भरीशश्चिन्तितवान्M. यदुच्यते जनहाँस्यमर्द्ध वैरं वृथैव तत् । इदं हि वैरं संपूर्णमन्ते प्राणान्तकारणात् ।।१।। अथ हास्येन कि कच्छ पल्यै
वैतत्कृतं मम । मन्येऽहमङ्गना एव मूलं व्यसनभूरुहः ।। २ ॥ लङ्कासमीपे कुरुमण्डले च समुत्कटोद्यद्भटकोटिनाशात् । | रामायणं भारतमप्यभूद्यत्तत्र ध्रुवं लोलगेव हेतुः ।। ३ ॥
ततः प्रशान्तात्मा श्रीचौलुक्यसेवामकृत सततम् । अथ श्रीकुमारोऽपि कृतकृत्यः पश्चादागच्छन् चन्द्रावतीं प्राप ।।
।।८४||