________________
॥८३॥
• अर्थ परिभाव्य चमत्कृतः । अथार्णोराजः, कथमेष दुर्जयो जेतव्यः ? इति विचिन्त्य पूर्वमेव तत्रागतं चारभटं जयोपायं पृष्टवान् । तेनापि विज्ञप्तम्, राजन् ! केल्हणाद्याः सामन्ताः कुमारे विरक्ताः सन्ति कृपणत्वाकृतज्ञत्वादिभिः । ततो द्रव्यं दत्त्वा परावर्त्यन्ते ते ततो हास्यन्ति । ततः प्रातरहं देवगजमारुह्य सिंहनादेन कुमारगजं त्रासयिष्यामीति विचार्य रात्री सामन्तपरावर्त द्रव्यादिभिः कृत्वा प्रातः संग्रामे जायमाने सामन्तानुदासीनान् दृष्ट्वा हे श्यामल ! किममी उदासीनाः ? इति राजा पृष्टवान् । श्यामलोऽपि श्रोचौलुक्यराज! वैरिणा सुवर्णप्रदानादिना परिवर्तिता एते । अर्थो हि । त्रिभवनपरावर्तनसमर्थ इत्याह । तर्हि तव का चेष्ठा? श्यामलः, देव ! अहं कलहपञ्चाननगजो देवश्चैते त्रयोऽपि न परावर्त्यन्ते एव । तहि संमुखीने दृश्यमाने रिपौ गजं प्रेरय । अत्रान्तरे चारणः प्राह-- कुमारपाल ! मन चिंतकरी चिंतिउं किंपि न होइ । जिणि तुह रज समोपिउं चितकरेसिइ सोइ ।। १॥ अन्यस्तू
अम्हे थोडा रिउ घणा इय कायर चितंति । मुद्धि निहालु उ गयणयलु के उज्जोउ करंति ।। २ ।। द्वयोर्लक्षमौचित्यम् । तयोः सुशब्दं लात्वा रणभूमौ द्वयोश्चिरं युद्ध जायमाने कश्चित् पपाठ-- दृष्टस्तेन शरान् किरन्नभिमुखः क्षत्रक्षये भार्गवो, दृष्टस्तेन निशाचरेश्वरवधव्यग्रो रघुग्रामणीः ।
दृष्टस्तेन जयद्रथप्रमथनोन्निन्द्रः सुभद्रापतिदृष्टो येन रणाङ्गने सरभसश्चौलुक्यचूडामणि ।। १ ।। तदनु चारभटविरचितसिंहनादेन कलहपञ्चानने निवर्तमाने राजाह, कथमयं पशुः पश्चाद्वलते पुनः पुनः । श्यामलेन सिंहनादस्वरूपे निरूपिते तत्कालोत्पन्नबुद्धिः स्वमुत्तरीयं पाटयित्वा गजकर्णी पिधाय रणभुवि विद्य दुत्क्षिप्तकरणं दत्त्वाऽ
XXXXXXXXXXXXXXXXX
॥८३।।