SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥८३॥ • अर्थ परिभाव्य चमत्कृतः । अथार्णोराजः, कथमेष दुर्जयो जेतव्यः ? इति विचिन्त्य पूर्वमेव तत्रागतं चारभटं जयोपायं पृष्टवान् । तेनापि विज्ञप्तम्, राजन् ! केल्हणाद्याः सामन्ताः कुमारे विरक्ताः सन्ति कृपणत्वाकृतज्ञत्वादिभिः । ततो द्रव्यं दत्त्वा परावर्त्यन्ते ते ततो हास्यन्ति । ततः प्रातरहं देवगजमारुह्य सिंहनादेन कुमारगजं त्रासयिष्यामीति विचार्य रात्री सामन्तपरावर्त द्रव्यादिभिः कृत्वा प्रातः संग्रामे जायमाने सामन्तानुदासीनान् दृष्ट्वा हे श्यामल ! किममी उदासीनाः ? इति राजा पृष्टवान् । श्यामलोऽपि श्रोचौलुक्यराज! वैरिणा सुवर्णप्रदानादिना परिवर्तिता एते । अर्थो हि । त्रिभवनपरावर्तनसमर्थ इत्याह । तर्हि तव का चेष्ठा? श्यामलः, देव ! अहं कलहपञ्चाननगजो देवश्चैते त्रयोऽपि न परावर्त्यन्ते एव । तहि संमुखीने दृश्यमाने रिपौ गजं प्रेरय । अत्रान्तरे चारणः प्राह-- कुमारपाल ! मन चिंतकरी चिंतिउं किंपि न होइ । जिणि तुह रज समोपिउं चितकरेसिइ सोइ ।। १॥ अन्यस्तू अम्हे थोडा रिउ घणा इय कायर चितंति । मुद्धि निहालु उ गयणयलु के उज्जोउ करंति ।। २ ।। द्वयोर्लक्षमौचित्यम् । तयोः सुशब्दं लात्वा रणभूमौ द्वयोश्चिरं युद्ध जायमाने कश्चित् पपाठ-- दृष्टस्तेन शरान् किरन्नभिमुखः क्षत्रक्षये भार्गवो, दृष्टस्तेन निशाचरेश्वरवधव्यग्रो रघुग्रामणीः । दृष्टस्तेन जयद्रथप्रमथनोन्निन्द्रः सुभद्रापतिदृष्टो येन रणाङ्गने सरभसश्चौलुक्यचूडामणि ।। १ ।। तदनु चारभटविरचितसिंहनादेन कलहपञ्चानने निवर्तमाने राजाह, कथमयं पशुः पश्चाद्वलते पुनः पुनः । श्यामलेन सिंहनादस्वरूपे निरूपिते तत्कालोत्पन्नबुद्धिः स्वमुत्तरीयं पाटयित्वा गजकर्णी पिधाय रणभुवि विद्य दुत्क्षिप्तकरणं दत्त्वाऽ XXXXXXXXXXXXXXXXX ॥८३।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy