________________
कुमारपाल
॥८२॥
एवं निषिद्धोऽपि स्वात्मवैरी स सामन्तः स्वसौधमध्ये क्वाऽपि वह्नियत्रं निर्माय श्रीकुमारपालदेवस्य चन्द्रावतीपरिसरे समागतस्य निमन्त्रणाय गतो विक्रमसिहः । राज्ञः पादयोर्लगित्वा भोजनार्थमत्याग्रहं कृतवान् । श्रीचौलुक्योऽपि " मारवेषु न विश्वस्यम्” इति नीति जानन् स्वपरिवारं भोजनार्थं प्रहितवान्, स्वयं न गतः । परिजनोऽपि भुक्तेरनन्तरं राज्ञः सौधरामणीयकं विलोकनायेतस्ततो भ्रमन् वह्नियन्त्रमध्यहूयमानतत्तद्रव्यादिगन्धं जिघ्रन् कंचिद्वृद्ध ं दृष्ट्वा पृष्टवान् । तेन च वह्नियन्त्रस्वरूपं कथितम् । गूर्जरलोकः स्वभावतोऽपि चतुरः, ततस्तच्छद्म सामन्तसिंहरचितं राज्ञे विज्ञतवान् । राजाऽपि गूढहृदयस्तदज्ञातमिव दर्शयन् सामन्तसिंहं साद्ध नीत्वा शाकम्भर्याः समीपवनेषु स्वसैन्यं निवेशया - मास । पद्यमेकं दत्त्वा दूतः प्रहितः स तत्र गत्वा काव्यमर्पयत् । वाचितं तच्च यथा
रे रे भेक ! गलद्विवेक ! कटुकं किं रारटीष्युत्कटो, गत्वा क्वपि गभीरकूपकुहरे त्वं तिष्ठ निर्जीववत् । सर्पोऽयं स्वमुखप्रसृत्वरविषज्वालाकरालो महान्, जिह्वालस्तव कालवत्कवलनाकाङ्क्षी यदाजग्मिवान् ।। १ ।। दूतवाक्यं तदाकर्ण्य काव्यभावं विभाव्य च । अवज्ञया हसन्नर्णोराजो व्याहरति स्म तम् ।। १ ।। रे दूत ! संग्रामेऽहं प्रति भेकत्वं तार्क्ष्यत्वं वा ज्ञास्यते त्वत्स्वामिन इत्युक्त्वा प्रतिकाव्यं दत्त्वा दूतं विसृष्टवान् । स्वयं वाजिलक्षत्रयेण पञ्चाशद्गजैः, लक्षदशपदात्रिभिः परिवृतः संमुखमायातः दूतेन काव्यं राज्ञेऽर्पितम् ।।
रे रे सर्प ! विमुञ्च दर्पमसमं किं स्फारफुत्कारतो, विश्वं भीषयसे क्वचित्कुरु बिले स्थानं चिरं नन्दितुम् । नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्वयाधूतपृथ्वीधरस्तार्क्ष्यो भक्षयितुं समेति झटिति त्वामेष विद्वेषवान् ।। १ ।।
********
प्र बन्धः ।
॥८२॥