________________
1८१॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
दुर्धरं विदन् क्षुभितः कुलक्रमायातं व्याघ्रराजं दीनारलक्षत्रयेण संतोष्य भरटकवेषधारिणं कङ्कलोहप्रच्छन्नशस्त्रयुतं श्रीकुमारघाताय प्रेषीत् । एतच्च पूर्वोपचारितार्णोराजपरिचारिकया मन्त्रिणे निवेदितं मन्त्रिणा च विज्ञप्ता राजश्च, यदूत. सावधानैर्भाव्यं भरटकविश्वासो न कार्य इति । ततः सोमदिने कर्णमेरुप्रासादे नवीनं भरटकं पूर्व मन्त्रिज्ञापितं चेष्टयोपलक्ष्य पूर्वसंकेतितमल्लाघ्रराजं बन्धयित्वा प्रच्छन्नारिका प्रकाश्य राजा प्राह, रे वराक ! जङ्गड ! केन प्रहितोऽसि ? सेवकस्य स्वामिपवश्यस्य कृत्याकृत्यविचारो नास्ति, त्वं मा भैषीः, मुक्तोऽसि, तमेव हनिष्यामीति सत्कृत्य मुक्तः । ततः ससैन्यः स्वभगिनीप्रतिज्ञापूरणाय सपादलक्षं प्रति प्रस्थितः । चन्द्रावतीपुर्या आसन्न प्राप। तत्र विक्रमसिहसामन्तो निरन्तरं पत्तने सेवार्थं यातायातेन भृशं दूनः स्वमन्त्र्यादीन् मेलयित्वा प्राह- .
असौ जटाधरः पूर्वं भिक्षित्वा निखिलामिलाम् । केनापि दैवयोगेन जज्ञेऽस्माकमधीश्वरः ।। १ ।।
क्वऽयं भिक्षाचरः शश्वत् क्व वयं राजसूनवः । विडम्बनं ततोऽनेन पत्यास्माकं न मण्डनम् ॥ २ ॥ ततो यदि युष्माकं विचारे समेति तदाऽसौ किमपि छलं कृत्वा घात्यते इति विक्रमसिंहेनोक्ते मन्त्रिणः प्रोचः, स्वामिन् ? स्वामिद्रोहः कुलीनानामनुचित एव, इह परत्र गहितत्वात् । यतःये स्वामिनं गुरु वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं च नास्ति तेषां, ननं सुखमुभयलोकेऽपि ।।९।। तथा
यस्माद्भस्मीभवति महिमा दाववह्नरिव द्रु-यंन श्याम भवति च कुलं कजलेनेव वस्त्रम् । यस्योदर्कः प्रथयति मुनेः शापवत्तापमन्त-रात्स्नेहादपि न कृतिभिस्तद्विधेयं विधेयम् ।। १ ।।
॥१॥