________________
अष्टादशदेशेषु राज्ञ आज्ञा प्रवर्तिता श्रीआम्बडेन । कुमारपाल अथ शाकम्भरीपुर्या राजाऽर्णोराजः श्रीचौलुक्यभगिनीदेवल्लदेवीपत्न्या सह सारिक्रीडां बितन्वानोऽशिरोवेष्टशीर्षत्वाग्दु- प्रबन्धः ।
जरा नरा मुण्डिता इति कृत्वा हास्यरसेन मुण्डितान मारयेति जायां प्राह । ततः सा कुमारभगिनी स्वदेशपक्षपातवशंवदा ॥८॥
हे देव ! एतद्धास्यं मुक्त्वाऽन्यद्धास्यं मया समं कार्य इति स्वकान्तं प्राह । सोऽप्येवं निषिद्धोऽपि वारितवाम इव पुनः पुनस्तदेवं बचोऽवोचत् । ततो रुष्टा देवल्लदेवी । रे जङ्गड ! जाल्म! जिह्वां संभाल्य न वदसि ? । यतः--
क्वाऽमी जना भवद्देश्याः, पीना कौपीनचीवराः । विवेकविकलाः क्रूरगिरो रौद्राः पिशाचवत् ॥ १ ॥ ___ क्व च ते गूर्जराः स्फूर्जदङ्गाः शृङ्गारसङ्गताः । विविक्ता मधुरालापाः, भूमिष्ठास्त्रिदशा इव ॥ २ ॥ यदि भार्यात्वेन मत्तो पापाच न विभेषि तदा मद्भातुः श्रीकुमाराद्राजराक्षसादपि रे न भयं इत्यादिवदन्ती क्रुद्धोऽर्णोराजः । पादघातेन तां जघान । याहि मद्गृहात्, कथय स्वभ्रातुभिक्षाचरस्य, इति च निर्भर्त्सनावाक्यः पराभूता सा मनस्विनी यदि ते जिहां दृष्टामवटमार्गेण नाकर्षयामि तदा राजपूत्री मां मा मंस्था इति प्रतिज्ञाय स्वपरिवारसैन्यैः सह पत्तने . राजानं स्वबन्धमाशीर्वादवचनस्तोषयित्वाोनपस्वरूपं स्वप्रतिज्ञां च कथितवती । चौलुक्योऽपि तां भगिनीं सामवाक्य
।।८०॥ Ke राश्वास्य दुष्टराज्ञः स्वजिह्वाकलं दर्शयित्वा तव प्रतिज्ञां पूरयिष्यामीति तोषितवान् । स्वगृहे सा धर्मपरा स्थापिता सव
हुमानम् । अथ राजाऽर्णोराजस्थितिचर्यादिजिज्ञासुः कञ्चन धूर्त मन्त्रिणं शाकम्भरीपुर्यां प्राहिणोत् । सोऽपि तत्र गत्वा ke कूटवणिग्वृत्त्या राजद्वारेऽटुं कृत्वा राजमुख्यपरिचारिकापरिचयं चकार । इतश्चानाकस्तस्यां तत्र गतायां श्रीचौलुक्यनृपं