SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥७९॥ - ङ्गमांश्च । तेन च सौवर्णकलशत्रयं विहाय स्वगहादर्वाक सर्व भट्टभ्यः प्रदत्तम् । अत्रान्तरे पिशुनप्रवेशः । यतः-- अकारणाविष्कृतवैरदारुणा-दसज्जनात्कस्य भयं न जायते?। विषं महाऽहेरिव यस्य दुर्वचः, सुदुःसहं संनिहितं सदा मुखे।।१॥ जम्मेवि जं न हूअं, न हु होही जंच जम्मलक्खेहिं । तं चिअ जपंति तहा, पिसुणा जह सञ्चसारिच्छं ॥२॥ ततः प्रभाते किंचिद्दनेन राज्ञा सेवावसरे समायातः प्रणामपर्यन्ते श्रीमदाम्बडः प्रोक्तः, त्वं मम दानादप्यधिकमियत्कस्माइत्से?। यतः-'सेवकेन स्वामिन आधिक्येन दानं न देयम्' इति सेवाधर्मः। अत्रावसरे श्रीमदाम्बडस्य मागधः पपाठ राजसभायाम शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः, सारङ्गाः सुहृदो ननु क्षितिभृतां वृत्तिः फलैः कोमलैः । येषां नैर्झरमम्बुपानमुचितं रत्यैव विद्याङ्गना, मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥१॥ मन्त्रिणा लक्षमौचित्ये दत्तम् । राज्ञः समधिकः कोपः । ततो मन्त्रिणा प्रोचे, राजन् ! त्वं द्वादशग्रामस्वामिनस्त्रिभुवनपालस्य पुत्रः, अहं त्वष्टादशदेशाधिपत्यभुजस्तव पुत्रः ततः स्तोकमिदं मम दानम्, इति श्रुत्वा राजा प्रमुदितः पुत्रपदमदात्, द्विगुणं च प्रसादमकरोत् । अत्रान्तरे राज्ञो मागवः पपाठ-- ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते, तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो, ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ १ ॥ राजा सपादलक्षं पारितोषिकमदात् । ततः यः कौबेरीमातूरुष्क-मैन्द्रीमात्रिदिवापगाम् । याम्यामाविन्ध्यमासिन्धुं पश्चिमा यो ह्यसाधयत् ॥ १ ॥ ॥७९॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy