SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कुमारपाल 119211 कार्जुनं जेतुं प्राहिणोत् । ततः कतिभिः प्रयाणैः पुनस्तां नदीमासाद्य प्रवाहबन्धे विरचिते तेनैव पथा सैन्यमुत्तार्य सावधानवृत्त्या सम्मुखमायातमल्लिकार्जुनसैन्येन सहासुमसमरारम्भे जायमाने हस्तिस्कन्धाधिरूढं वीरवृत्त्या मल्लिकार्जुनमेव रुरोध । द्वयोश्विरं खड्गाखड्गि दृष्ट्वा मागध: पपाठ -- अभिमुखागतमार्गणधोरणि-ध्वनितपल्लविताम्बरगह्वरे । वितरणे च रणे च समुद्यते, भवति कोऽपि परं विरलः पुरः ॥ १ ॥ इति श्रुत्वा वर्द्धितोत्साह आम्बड : सुभटो दन्तिदन्तमुसलसोपानेन कुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः प्रथमं त्वं प्रहर ं इष्टं वा दैवतं स्मर इत्युच्चरन् धारालकरवालप्रहारात् मल्लिकार्जुनं भूपीठे लोठयित्वा सामन्तेषु तन्नगरलुण्टनव्यापृतेषु केशरिकिशोर इव करिणं तं लीलयैव जघान । तन्मस्तकं सुवर्णेन वेष्टयित्वा तस्मिन् देशे श्रीचौलुक्यचक्रवतिनः समन्तादाज्ञां दापयित्वा त्रिशतीं जालान् प्रज्वाल्य श्रीपत्तनमाजगाम । ततः सभानिषण्णेषु द्वासप्ततिसामन्तेषु तस्य कोशमार्पयत् ।। शाटीं शृङ्गारकोट्याख्यां' पटं माणिक्यनामकम् । पापक्षयङ्करं हारं मुक्ताशुक्ति विषापहाम् ।। १ ।। हैमान् द्वात्रिशतं कुम्भान् १४ मनुभारान् प्रमाणतः । षण्मूटकांस्तु मुक्तानां स्वर्णकोटोश्चतुर्दश ।। २ ।। विंशं शतं च पात्राणां चतुर्दन्तं च दन्तिनम् । श्वेत सेदुकनामानं दत्त्वा नव्यं नवग्रहम् ।। ३ ।। इत्याद्यपरमपि तत्सत्कं सर्वं समर्प्य तच्छिरः कमलेन स्वस्वामिनः श्रीकुमारपालनरेश्वरस्य पादौ पूजयामास महावदातप्रीणितेन राज्ञा श्रीआम्बडाय 'राजपितामह' इति बिरुदं दत्तम् । कोटिंद्रव्यं सौवर्णकलशत्रयं चतुर्विंशतिजात्यतुर प्रबन्धः । ।।७८।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy