________________
॥७७॥
***
सुभटोsस्ति या मिथ्याभिमानं नृपाभासं मल्लिकार्जुनं जयतीति युष्मदाशयविदा मया स्वाम्यादेशक्षमेणायमञ्ज लिबन्धचक्रे । इति तद्वचः श्रुत्वा राजाऽवदत्, अहो ! अस्य चातुर्यम् ।।
उदीरितोऽर्थः पशुनाऽपि गृह्यते, हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्युहैति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ॥ १ ॥
ततस्तद्वचः समनन्तरमेव नृपस्तं प्रति प्रयाणाय दलनायकं कृत्वा पञ्चाङ्गप्रसादं दत्त्वा समस्तसामन्तः समं विससर्ज । स चाविच्छिन्नप्रयाणकैः कोङ्कणदेशमासाद्य दुर्वारवारिपूरां कलम्बिणीनाम्नीं नदीमुत्तीर्य परस्मिन् कूले गते सैन्ये तं संग्रामास विमृश्य मल्लिकार्जुनः सर्वाभिसारेण प्रहरन् तत्सैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्णवदनः कृष्णवसनः कृष्णछत्रालङ्कृतमौलिः कृष्णगुडुरेषु निवसन् श्रीपत्तनबहिष्प्रदेशे स्थितः । अथ विजयदशमीदिनेराजपाटिकागतेन श्रीचौलुक्यभूभुजा विलोक्य कस्यासौ सेनानिवेश: ? इति पृष्टे कश्चिदुवाच, देव! कौङ्कणात्प्रत्यावृत्तस्य पराभूतस्याम्बडसेनापतेः संनिवेशोऽयमिति । तदीयलज्जया चमत्कृतो भूपश्चिन्तयति स्म । अहो ! अस्य लज्जाशीलत्वम् । अत्रान्तरेऽवसरपाठकः पपाठ
लजां गुणौघजननीं जननीमिवार्या -मत्यन्तशुद्धहृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।। १ ।। ( वसंत ० ) ततोऽस्य सपादलक्षमौचित्येऽदापयत् । पुनः प्रसादललितया दृशाऽऽम्बडं संभाव्य तदपरैर्वलवद्भिः सामन्तः समं मल्लि
****
110011