SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ॥७६॥ XXXXXXXXXXXXXXXXXXXXXXXX मूर्तिमान् निशि तया समं रेमे । आधानाद्राजा क्रुद्धो यावत् प्रवासं दत्ते राश्याः, तावद्देवः समागत्य प्राह-- विवाहयित्वा यः कन्यां, कुलजां शीलशालिनीम् । समदृष्टया न पश्येत, स पापिष्ठतमो मतः ॥२॥ इति त्वामवज्ञाकारिणं प्रलयकालमुक्तमर्यादया सान्तःपुरपरीवारं प्लावयिष्यामीति भूपो भीतः क्षामयति राज्ञीम् । चूर्णादिप्रयोगो ज्ञापितो राश्या । पुत्रो जातः मल्लिकार्जुननामेति प्रसिद्धः । तस्मै राज्योचितां भुवं याचितोऽम्बुध्यधिष्ठायकः क्वचिन्नव्यां भुवं नीरमपहृत्यान्तरीपान् प्रादुश्चकार । तत्र स्थाने कौङ्कणदेशप्रसिद्धिः । अथान्यदा श्रीचौलुक्यचक्रवर्ती सर्वावसरे स्थितः कौङ्कणदेशीयस्य मल्लिकार्जुनस्य राज्ञो मागधेन राजपितामहेति बिरुदमभिधीयमानमशृणोत् । यथा जित्वा प्राग् निखिलानिलापतिवरान् दुर्वारदोर्वीर्यतः, कृत्वा चात्मवशंवदानविरतं तान् पौत्रवत्सर्वदा । धत्ते राजपितामहेति बिरुदं यो विश्वविश्वश्रुतं, सोऽयं राजति मल्लिकार्जुननृपः कोदण्डविद्यार्जुनः ।।१।। तदाकर्ण्य सोष्माणं राजानमधिगम्यागाधबुद्धिनिधिर्मागधः पुनरभ्यधात्-- रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥१॥ इति मागधवचनरुद्दीपितो राजाऽवदत् । अहो ! अविज्ञाताऽहङ्कारस्वरूपोऽयं भूपः । यतः-- - - ___ अहङ्कारे सति प्रौढे, बदत्येवं गुणावली। अहङ्कारे पतिष्यामि, समायाता तवान्तिके ॥ १॥ ततस्तदसहिष्णुतया स्वसभां निभालयन नपचित्तविदा मन्त्रिपुत्रेण श्रीआम्बडेन कृतं ललाटे करसंपुटं दृष्ट्वा चमत्कृतो भूपतिः सभाविसर्जनानन्तरमञ्जलिबन्धस्य कारणमपृच्छत् । ततो मन्त्रिपुत्रोऽवदत्, देव ! यदस्यां सभायां स कोऽपि XXXXXXXXXXXXXXXXXXXXXXXXXX । ७६॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy