________________
कुमारपाल
प्रबन्धः ।
||७४||
XXXXXXXXXXXXXXXXXXXXXX
स्वराश्चोभयजाः केचित्, मुख्यास्तेषु च देहजाः यतः-- सप्तस्वरस्त्रयो ग्रामाः, मूर्छनाश्चैकविंशतिः । ताना एकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥१॥ षड्जर्षभौ च गान्धारो, मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च, ते स्वराः सप्त नामतः ॥२॥ कण्ठोरस्तालुरसनानासाशीर्षाभिधेषु च । षट्सु स्थानेषु जातत्वात्, षड्जः स्यात् प्रथमः स्वरः ॥३॥ कण्ठात्संजायते षड्जः, ऋषभो हृदयोद्भवः । गंधारस्त्वनुनासिक्यो, मध्यमो नाभिसंभवः ।। ४ ।। उरसः शिरसः कण्ठात्सञ्जातः पञ्चमः, स्वरः । ललाटे धैवतं विन्द्यानिषादः सर्वसन्धिजः ।। ५॥ सप्तस्वराणामुत्पत्तिः, शरीरे परिकीर्तिता । तथा-- सज्ज रवइ मऊरो, कुक्कुडो रिसहं सरं । हंसो वयइ गंधारं, मज्झिमं च गवेलका ॥१॥ अह-- कुसुमसंभवे काले, कोइला पंचमं सरं । छठु च सारसा कोंचा, नेसायं सत्तमं गया ॥१॥ सज्जं तु अग्गजिब्भाए, उरेण रिसहं सरं । कंठुग्गएण गंधारं, मज्झजिब्भाइ मज्झिमं ।। २ ।।
नासाए पंचमं बूया, दंतुट्रेण य धेवयं । मुद्धाणेण य नेसायं, सरदाणा विआहिया ।। ३ ।। सत्तसरा अजीवनिस्सिया पन्नत्ता । तंजहा--
सज्जं रवइ मुअंगो, गोमुही रिसहं सरं । संखो नदइ गंधारं, मज्झिमं पुण झल्लरी ॥ १ ॥ चउचलणपइट्ठाणा, गोहिया पंचमं सरं । आडंबरो अ धेवयं, महाभेरी अ सत्तमं ॥ २ ॥
SAXXXXXXXXXXXXXXXXXXXXXXXXXXX
॥७४॥