________________
॥७३॥
XXXXXXXXXXXXXXXXXXXXXXXXX
__ आगङ्गमैन्द्रीमाविन्ध्यं, याम्यामासिंधुपश्चिमाम् । आतुरष्कं च कौबेरी, चौलुक्यः साधयिष्यति ॥ १॥ अन्यदा राजसभासीनं नृपं कोऽपि वैदेशिकगन्धर्वो मुषितोऽस्मीति तारं बम्बारवं कुर्वाणः केन मुषितोऽसि ? इति । राज्ञा पृष्टः, मम गीतकलयाऽतुलया सामीप्यमुपेयुषा कौतुकापितगलस्वर्णशृङ्खलेन नश्यता मृगेणेति विज्ञपयामास । ततो राज्ञाऽचिन्ति नूनमयं कोऽपि वैदेशिको गीतकलाकौतुकी स्वां कलां दर्शयितुमत्रागत इति । निजो गन्धर्वकलाधुरन्धरः सोल्लाभिधः समादिष्टस्तदानयनाय । सोऽपि च तत्कालमेव तदटवीमटन्तं परमोत्कर्षप्राप्तस्फीतगीतकलया व्यामूढं सकनकशृङ्खलं मृगं नगरान्तरे राजसभायामानीय भूपतेः समर्पयामास । ततस्तत्कलातिशयेन चमत्कृतो भूपः प्रभूतं पारितोषिकं दत्त्वा गीतकलाया अवधि पप्रच्छ । सोल्लाकः शुष्कदारुणः पल्लवप्ररोहावधि विज्ञप्तवान् । तर्हि कौतुकं दर्शय इत्यादिष्टोऽबुंदगिरेविरहनामानं वृक्षमाक्षेपादानाय्य तस्य शुष्कशाखाखण्डं राजसभायां कुमारमृत्तिकायां कलप्तालवालं शुद्धमल्हाररागालपितगीतमूर्छनासंमूर्छितप्रोल्लसत्पल्लवं कृत्वा राजानं सपरिकरं तोषयामास । द्वादशनामान् पारितोषिक दत्त्वा चिन्तितवान, अहो! नादमहिमा महीयान् । यतः
सुखिनि सुखनिषेको दुःखितानां विनोदः, श्रवणहृदयहारी मन्मथस्याग्रदूतः ।
नवनवरसकर्ता वल्लभो नायिकानां, जयति जगति नादः पञ्चमस्तूपवेदः ॥१॥ तत्रायातान् श्रीहेमसूरीन् नादस्वरूंपादि पृष्टवांश्च । सूरयोऽप्याहुः--
सप्तस्वरमय गीतं, ते स्वरास्त्रिविधा मताः । सचेतनकृताः केपि, केपि निश्चेतनोद्भवाः ॥१॥
॥७३॥