SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भवदुक्तं करिष्येहं सर्वमेव शनैः शनैः । कामयेऽहं परं सङ्गं निधेरिव तव सभो! ॥ २ ॥ कुमारपाला अतो भवद्भिरिह प्रत्यहं समागम्यं प्रसद्य। एवमङ्गीकृत्य यथाप्रस्तावं च सभायामागत्य धर्ममन्तिराणि सूरिराख्यातवान् । अथ-प्रबन्धः । रक्षाय व्ययचिन्तनं १ पुरजनान वीक्षा २ सुरार्चाऽशने ३ कोषान्वेषण ४ मन्यनीवृति चरप्रेषो ५ यथेच्छं भ्रमिः ६ ।। ।७२।। हस्त्यश्वादिशरासनादिरचना ७ जेतव्यचिन्ता समं सेनान्येति ८ कृतिः क्रमेण नृपतेर्घस्रस्य भागाष्टके ।। १ ॥ एकान्ते परमाप्तवाश्रुति १ रतिप्रौढार्थशास्त्रस्मृति २ स्तूर्यध्वानपुरस्सरं च शयनं ३ निद्रा च भागद्वये ४-५ । बुद्ध्वा वाद्यरवैरशेषकरणध्यानानि ६ मन्त्रस्थिति ७ विप्राशीभिषगादिदर्शनमिति ८ स्याद्रात्रिभागाष्टके ।। २ ॥ इति नीतिरीत्या श्रीकुमारपालो राज्यं पालयति । अथान्यदा श्रीकुमारभूपो दिग्विजयं कुर्वाणः प्राच्यां कुरुसूरसेनकुशावर्तपञ्चालविदेहदशार्णमगधादीन् देशान्, उत्तरस्यां काश्मीरोड्डियाणजालन्धरसपादलक्षपर्वतादि यावदसाधयत् । दक्षिणस्यां लाटमहाराष्ट्रतिलङ्गादिविषयान्, पश्चिमायां सुराष्ट्रब्राह्मणवाहकपञ्चनदसिन्धुसोवीरादिदेशांश्च स्ववशीचक्रे । तत्र सिन्धुपश्चिमतटे पद्मपुरेशपद्मरथपुत्री पद्मिनी पद्मावतीनाम्नी स्वरूपलावण्यवयःसमानषोडशवाराङ्गनासहितां सप्तकोटिद्रव्यसप्तशतसैन्धवतुरङ्गमपरिवृतां श्रीकुमारपालस्य परनारीसहोदर शरणागतवज्रपञ्जरनिःसीमसाहसरूपसौन्दर्यादिगुणान् .श्रुत्वा सञ्जातदृढतमानुरागां स्वयंवरायातां श्रीकुमारः परिणीतवान् । तथा मूलस्थाने मूलराजनृपेण सह महान् युद्धविस्तरः । एवं दिग्यात्रां कृत्वाऽनेका द्रव्यकोटीरादाय एकादशलक्षतुरगकादशशतगजेन्द्रपञ्चाशत्सहस्ररथद्वासप्ततिसामन्ताष्टादशलक्षपदातिरूपसैन्यपरिबारितः श्रीपत्तनमलञ्चकार । यदुक्तं श्रीवीरचरित्रे दिग्विजयप्रमाणं श्रीकूमारभूपतेः ||७२।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy