SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ॥७ ॥ XXXXXXXXXXXXXXXXXXXXXXXXANEMALE कएवि अन्नस्सुवगारजाए, कुणंति जे पच्चुवयारजुग्गं । न तेण तुल्लो विमलोवि चंदो, न चेव भाणू नहि देवराया ॥१॥ उपकारव्रतस्यास्य कथमन्यद्वतं समम् । इहलोकेऽपि यत्सद्यः फलत्यविकलै: फलैः ॥१॥ एवं निजोपकर्तृ स्तान सच्चक्रे सकलान्नृपः । हेमाचार्य विमुच्येक धर्मप्राप्त्यन्तरायतः ॥२॥ अथ कर्णावत्याः श्रीहेमाचार्याः श्रीकुमारस्य राज्याप्ति श्रुत्वा उदयनमन्त्रिकृतप्रवेशोत्सवाः पत्तने प्रापुः । पृष्टो मन्त्री, राजाऽस्माकं स्मरति न वा ? इति । मन्त्रिणोक्तं, नेति । ततः कदाचित्सूरिभिरूचे, मन्त्रिन् ! त्वं भूपं ब्रूया रहः, अद्य त्वया नव्यराज्ञीगृहे नैव सुप्तव्यम्, रात्रौ सोपसर्गत्वात् । केनोक्तं ? इति पृच्छेच्चेत्तदाऽत्याग्रहे मन्नाम वाच्यम् । ततो मन्त्रिणा तथोक्ते राज्ञा च तथाकृते निशि विद्य त्पातात्तस्मिन् गृहे दग्धे राज्यां च मृतायां चमत्कृतो राजा जगाद सादरम् । मन्त्रिन् ! कस्येदमनागतं ज्ञानं महत्परोपकारित्वं च । ततो राज्ञाऽतिनिर्बन्धे कृते मन्त्रिणा श्रीगुरूणामागमनमूचे । प्रमुदितो नपस्तानाकारयामास । सदसि सूरिन् दृष्ट्वाऽऽसनादुत्थाय वन्दित्वा प्राञ्जलिरुवाच राजा, भगवान् ! अहं निजास्यमपि दर्शयितुं नालं तत्रभवतां, तदा च स्तम्भतीर्थे रक्षितः, भाविराज्यसमयचिट्ठडिका चार्पिता, परमहं प्राप्तराज्योऽपि नास्मार्ष युष्माकम् । निष्कारणप्रथमोपकारिणां कथंचनाप्यहं नानृणो भवामि । सूरिभिरूचे, कथमित्थं विकत्थसे त्वमात्मानं मुधा राजन् ! उपकारक्षणो यत्ते संप्रति समागतोऽस्ति । ततो राजाऽह, भगवन् ! पूर्वप्रतिश्रुतमिदं राज्यं गृहीत्वा मामनुगृहाण । ततः सूरिः प्रोवाच, राजन् ! निस्सङ्गानामस्माकं किं राज्येन ?___ कृतज्ञत्वेन. चेप! त्वं प्रत्युपचिकीरसि । आत्मनीने तदा जैनधर्मे धेहि निजं मनः ॥ १ ॥ ततो राजाह ७१॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy