________________
कुमारपाल
॥७
॥
XXXXXXXXXXXXXXXXXXXXXXXXXXXX
आज्ञाभङ्गो नरेन्द्राणां, महतां मानखण्डनम् । मर्मवाक्यं च लोकानामशस्त्रवध उच्यते ॥ २ ॥ याचको वञ्चको व्याधिः, पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च, प्रायेणोद्वेगहेतवः ॥ ३ ॥
प्रबन्धः । नपस्तु तदा तदाकारसंवरणेनापह्नवं विधायापरस्मिन् दिने कृतसङ्केतैः स्वमल्लस्तदङ्गभङ्ग कारयित्वा नेत्रयुगलमुद्धत्य कृष्णदेवभावुकं तदावासे प्रेषीत् । यतः
शास्त्रं सुनिश्चलधिया परिभावनीय-माराधितोऽपि नपतिः परिशनीयः ।
आत्मीकृतापि युवतिः परिरक्षणीया, शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ? ॥ १ ॥ (वसंत०) आदौ मयैवायमदीपि नूनं, तन्नो दहेन्मामवहीलितोऽपि । इति भ्रमादगुलिपर्वणापि, स्पृश्येत नो दीप इवावनीपः ॥२॥ इति सूक्तं स्मरन्तोऽन्तीतिरीतिविशारदाः । देवेन्द्रमिव देवास्तं चौलुक्यं पर्युपासत ॥ १ ॥ सिद्ध शधर्मपुत्रोऽथ । भटश्चारभटो बली । चौलुक्याज्ञामवज्ञाय भेजेऽर्णो राजभूभुजम् ॥ २ ॥ इत्थं निष्कण्टकं राज्यं कृत्वा देशे समन्ततः । मूर्ध्नि शेषामिव न्यास्थनिजामाज्ञां महीपतिः ।। ३ ॥ . तदा राज्ञा कृतज्ञचक्रवर्तिनाऽलिगकुलालाय सप्तशतग्राममिता चित्रकूटपट्टिका दत्ता। ते तु निजान्वये लजमाना अद्यापि सगरा इत्युच्यन्ते । यैश्च (येन भीमसिंहेन) कण्टकान्तनिक्षिप्य रक्षितः, ते (तजातीयाः)अङ्गरक्षकपदे स्थापिताः। ( तन्मध्ये मुख्यो भीमसिंहो विश्वासास्पदम् ) वोसिरिब्राह्मणमित्राय लाटमण्डलं, तिलककारिण्यै करम्बकदायिन्यै देवश्रिये धवलकं, चणकदातृकटुकाय वटपद्रपुरं दत्तम् । अन्येषामपि पूर्वोपकारिणां दत्तमुचितम् । यतः