________________
॥६९॥
न्यस्तेषु घातकेषु प्राक्तनशुभकर्मप्रेरितेन केनाप्याप्तेन ज्ञापिततद्वत्तान्तस्तं प्रदेशं विहाय द्वारान्तरेण गृहं प्रविष्टोऽचिन्तयत्-- 'वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥१॥ सुहृदामुपकारकारणाद्विषतां चाप्यपकारकारणात् । प्रभुतेति जनैः प्रशस्यते, जठरं को न बिभर्ति केवलम् ॥२॥'
इति राजनीति परिभाव्य राजवृद्धप्रधानान् यमपुरी प्रति प्राहिणोत् । ततः स भावुकमण्डलेश्वरः शालकसंबन्धात् राजस्थापनाचार्यत्वाच्च राजपाटिकायां सर्वावसरे च प्राक्तनदुरवस्थां. समर्मतया जल्पन राज्ञोक्तः, त्वयाऽतःपरमेवंविधं वचः सभासमक्षं न वाच्यं, विजने तु पदृच्छयेति । यतः--
"संपदं विपदं चापि, महानाप्नोति नेतरः । हानि वृद्धि च लभते, चन्द्रमा नोडमण्डलः ।।१।। संतेहिं असंतेहिं, परस्स किं जंपिएहिं दोसेहिं । अत्थो जसो न लब्भइ, सो अ अमित्तो कओ होइ ? ।। २।। कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य। कस्येह सुखं नित्यं, देवेन न खण्डितः को वा? ।। ३ ।। कम्मं मम्मं जम्म, तिन्निवि एयाई मा भणिज्जासु । मम्माइस् विद्धो पुण, मारिज सयं मरिजा वा ।।४।। इत्याद्य परुद्धोऽप्युत्कटतयाऽवज्ञावशाच्च रे रे अनात्मज्ञ ! इदानीमेव पादौ त्यजसीति भाषमाणो मर्तुकाम औषधमिव तद्वचः पथ्यमपि न जग्राह न वेत्ति च वचनावसरम् । यतः- .
सभा केयं ? कोऽहं ? क इह समयः ? संप्रति वचः, प्रियं किं सर्वेषां ? सफलमिदमाहोश्विवदफलम् ? | इति प्रेक्षापूर्वं निगदति न यश्चारुवचनं, पुमानेष प्रायो व्रजति नियतं हास्यपदवीम् ॥ १ ॥