SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ॥६७॥ शकुनं तत्तथा प्रेक्ष्य कश्चित् शाकुनिकोऽब्रवीत् । सप्तदिन्या कुमारैतद्राज्यं भावि तव ध्रुवम् ।। ११ ॥ एवमस्त्विति तद्वा | क्यमूरीकृत्य स कृत्यवित् । विद्वांसमिव सच्चके तं द्रव्यादिप्रदानतः ।। १२ ।। इति निःशेषसामन्तामात्यसभ्यैकमत्यतः । उभौ राजसुतावन्यौ कुमारं तं च सत्तमम् ॥ १३ ॥ स्नपितालङ्कृतान् कृत्वा दिव्याश्वानधिरोप्य च । अमात्यः सममानैषीत्कृष्णदेवो नृपालयम् ॥ १४ ॥ युग्मम् ॥ ततः परीक्षार्थं प्रथमः कुमार आनीतः, सचिवान्नत्वोवाच किं करोमीति । ततः प्रथममेव यः किं करोमीति पच्छति स कथं राज्यकर्ता ? इति निषिद्धः। द्वितीयस्तु श्रस्तवस्त्राञ्चललोचनो विवृताङ्गः शून्य इव सिंहासनमाश्रितः ।। आवरीतु न शक्नोति निजमप्यङ्गमेककम् । आवरीता कथमयं सप्ताङ्गं राज्यमूजितम् ॥ १ ॥ इति विचार्य सोऽपि निषिद्धः । तदनू कुमारपालमादिक्षन् । सोऽपि कृपाणं पाणिना धुन्वन विकसन्मुखः स्कन्धद्वयन्यस्तसंव्यान ऊद्ध र्वसमीरणं गृहीत्वा सिंहासनमलञ्चकार । अत्रावसरपाठकः न श्रीः कुलक्रमायाता, शासने लिखिता न च । खङ्गेनाक्रम्य भुञ्जीत, वीरभोग्या वसुन्धरा ॥१॥ * तच्चेष्टासौष्ठवं दृष्ट्वा सन्तुष्टाः कृष्णदेवादयः । संवत् ११९९ वर्षे मार्गशीर्ष चतुर्थ्यां श्यामायां पुष्यार्के सर्वग्रहबलोपेते * - मीनलग्ने सर्वे सामन्ताः कुमारं राज्येऽभ्यषिञ्चन्त । ततः प्रेमलदेव्याद्या भगिन्यो माङ्गल्यादिक्रियोत्सवं चक्रुः । सर्वे सामन्तमन्त्रिणो हस्त्याद्य पायनानि कृत्वा नमश्चक्रः । मुक्तानां सेतिका क्षिप्ता तस्य शीर्षे सफल्यिका संजाता, राक्ष ग्रैश्वर्यवृद्धि सूचयति स्म । श्रीकुमारपालभूपः पञ्चाशद्वर्षदेश्यः पट्टगजारूढः श्वेतातपत्रपवित्रश्चामरैर्वीज्यमानः सर्वराज EXXXXXXXXXXXXXXXXXXXXX ॥६७॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy