________________
एकदा कोपाटोपात्सौधान्तर्वजन् स्तम्भाभिघातमूछितो निष्पुत्रो मृत्वाऽऽर्तध्यानवशात्सप्तफणालङ्कतः सर्पोऽभूत्स्वभाकुमारपाल
ण्डागारे । स मन्त्रिभिर्वारं वारं बहिर्मुक्तोऽपि स्वद्रविणमोहितः पुनः पुनस्तत्रैवायाति । राज्यं च पुत्रं विना वैरिभिरा- प्रबन्धः ।
क्रान्तम् । लोको महति संकटे पुरस्थापकदेवं सस्मार । समायातो देवः । स जातिस्मरं नागं सप्तफणमण्डितं दृष्ट्वाऽस्मदी॥६६॥
यकुलोत्पन्नोऽयमिति पुराऽप्यस्य पुरस्य स्वामी ततोऽयमेव राजा भवतु, इति नागकुमारकृतराज्याभिषेकस्तत्प्रभावाद्राज्यं करोति । देवस्तु सर्वत्र सौस्थ्यं विधाय स्वस्थानमगात् । इत्येतन्निशम्य कुमारेणाचिन्ति अहो ! दुर्गतिदाता क्रोधः
अपनेयमुदेतुमिच्छता, तिमिरं रोषमयं धिया पुरः । अविभिद्य निशागतं तमः, प्रभया नांशुमताऽप्युदीयते ॥१॥
कुमारोऽगाचर्मकारबालचन्द्रापणेऽन्यदा । उपानदर्थं तेनापि सादरं पूर्वनिर्मितम् ।।१।। उपानयुगलमेतद् युज्यते तव पादयोः । मूल्येनालं तव स्वामिन् ! मङ्गलीके मया कृतम् ।। २ ।। हृष्टश्च शुभवाक्येन शुश्राव कुमरस्तदा । पत्तने पादुकाराज्यं मरणं सिद्धभूपतेः ॥ ३ ॥ कुमारपालराजानं श्रृणोषि पत्तने यदा । शीघ्रमेयास्तदामन्त्र्य मोचिकं कुमरस्ततः ॥ ४ ॥ उज्जयिन्यां सानुचरो गत्वाऽखण्डप्रयाणकैः । कन्नालासिद्धपुरेऽगालात्वा शेषकुटुम्बकम् ।। ५ ।। तत्र पूर्वप्रतिपनमातुलस्य द्विजन्मनः । गृहे मुक्त्वा स्वकुटुम्बमेकाकी पत्तने ययौ ।। ६ ।। तत्र श्रीकृष्णदेवेन भग्नीकान्तेन गौरवात् । ।
नीत्वा स्वसदनं सम्यक् सच्चके सपरिच्छदः ।। ७ ।। भग्न्या प्रेमलदेव्याऽथ कुमारे स्नापिते स्वयम् । सस्य स्नानजले है। सनी दुर्गाकृतवरस्वरा ।।८।। तदा कुमारः प्राह-मम पश्यसि चेद्राज्यं देवि ! ज्ञाननिधे! ततः । उपविश्यैव मे मूनि स्वरं ॥६६॥ | श्रुतिसुखं कुरु ॥ ९ ॥ वचनानन्तरं साऽपि तथैवाधादतिस्फटम । 'तं राज' इति संरावं तच्चेतःसौधदीपकम् ।। १० ।।