SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध एवं तावदहं लभेय विभवं रक्षेयमेवं तत-स्तद्वद्धि गमयेयमेवमनिशं भुञ्जीयमेवं पुनः । कुमारपाला इत्याशारसरुद्धमानसमयं नात्मानमुत्पश्यति, क्रुध्यत्क्रूरकृतान्तदन्तपटलीयन्त्रान्तरालस्थितम् ।। १० ।। तदनु राजगृहं गतः । तत्र-- ॥६४|| स्वर्भोगभङ्गी १ नृपतिः क्रयाणकं २, सुवर्णनिर्माल्यमभूत् स्रगादिवत् ३ । भूपस्य मानेऽप्यपमानचिन्तनं ४ शालेर्महाश्चर्यकरं चतुष्टयम् ।। १ ।। कृत्वा समर्घ यदि वा महऱ्या, क्रयाणकं श्रेणिकनामधेयम् । यथा तथा मातरिदं गृहाण, प्रमाणमम्बैव किमत्र पृच्छा ।। २ । पादाम्भोजरज:प्रमार्जनमपि मापाललीलावती-दुष्प्रापाद्धृतरत्नकम्बलदलर्यदल्लभानामभूत् । निर्माल्यं नवहेममण्डनमपि क्लेशाय यस्यावनी-पालालिङ्गनमप्यसौ विजयते दानात्स भद्राङ्गजः ।। ३ ।। इत्यादिश्रीशालिभद्रधन्यकृतपुण्यादिव्यवहारिणां श्रीमदभयकुमारादिमन्त्रिणां चानेकावदातश्रवणविस्मितचेता दध्यौ-- ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो ! दुष्करं, यन्मुञ्चन्त्युपभोगभाञ्चयपि धनान्येकान्ततो निस्पृहाः । न प्राप्तानि पुरा न संप्रति ननु प्राप्तौ दृढप्रत्ययाः, वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥ १ ॥ अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्यते शमसुखमनन्तं विदधति ।। २ ।। ततो वैभारगिरिमारूढः । तत्र श्रीवीरसमवसृतिशालिभद्रपादपोपंगमानशनशिलातलादीनि निरूप्यानेकस्थानानि चिन्तितवान्--
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy