________________
॥६३॥
`वणिजा वस्त्राद्यः सत्कृतः कृती । द्वितीयेऽह्नि लुण्ट्यमानं तद्गृहं वीक्ष्य दुःखितः ॥ २ ॥ किंचित्पप्रच्छ किमिदं सोचे - द्यापुत्रको वणिक् । मृतोऽसौ तद्गृहं तेन लुण्ट्यते राजपूरुषः ॥ ३ ॥ श्रुत्वेति चकितः स्वान्ते वस्तुतत्त्वं विभावयन् । यथा क्षणादसौ नष्टः श्रेष्ठी सर्वं तथा भवे ॥ ४ ॥
आकटाद्यावदिन्द्रं मरणमसुमतां निश्वितं बान्धवानां, संबन्धकवृक्षोषित बहुविहगव्यूहसाङ्गत्यतुल्यः । प्रत्यावृत्तिर्मृतस्योपलतलनिहित प्लुष्टबीजप्ररोहप्राया प्राप्येत शोकात्तदयमकुशलैः क्लेशमात्मा मुधैव ॥ ५ ॥
कुमारोऽचिन्तयदसौ धिग् राज्यं यदपुत्रिणाम् । म्लेच्छानामपि सर्वस्वं राजा गुह्णाति पुत्रवत् ॥ ६ ॥ दुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धुकी, ध्यायत्यर्थपतोभिषग्गदगणं कर्तुं कलि नारदः । दोषग्राहिजनश्च पश्तति परच्छिद्रं छलं शाकिनी, निष्पुत्रं म्रियमाणमाढयमवनीपालो हहा ! वाञ्छति ।। ७ ।। राज्ये नाहं गृहीष्यामि स्वदेशे स्वमपुत्रिणाम् । प्रतिज्ञायेति कुमरो गतः पाटलिपुत्रके ।। ८ ।। तत्र च नवनन्दकारितस्वर्णमयपर्वतादिस्वरूपं श्रुत्वाऽचिन्तयत्-
येषां वित्तैः प्रतिपदमियं पूरिता भूतधात्री, यैरप्येतद्भुबनवलयं निर्जितं लीलयैव ।
तेऽप्येतस्मिन् भवगुरुह्रदे बुबुदस्तम्बलीलां धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ।। ९ ।।
।।६३