________________
।।६१।।
*TTE
मन्त्रिणा च तथाऽऽरब्धे यावच्चेचीयते दिवा । तावत्पतति रात्रौ च षण्मासा इति जज्ञिरे ।। ७ तथाऽप्यभङ्गुरोत्साहं नृपं कूटाचलाधिपः । उवाच मा कृथा दुर्गमत्र कर्तुं न कोऽप्यलम् ।। ८ । प्राणात्ययेऽपि कर्तास्मि नृपेणोक्ते सुरोऽब्रवीत् । यद्य ेवं निश्चयस्तहिं कुरु चित्रनगोपरि ।। ९ ।। दुर्गस्य नाममध्ये तु देयं मन्नाम भूपते ! । तत्र चित्राङ्गदश्चक्रे दुर्गं चित्रनगोपरि ।। १० ।। नगरं चित्रकूटाख्यं देवेन तदधिष्ठितम् । कोटिध्वजानां तन्मध्ये सहस्राणि चतुर्दश: ११ ।। लक्षेश्वराणां योग्या च कारिता तलहट्टिका । वापीकूपसरोमुख्यं शेषं देवेन निर्मितम् ।। १२ ।।
ईश्वरोऽप्युवाच --
"
चित्रकूटमिदं भद्रे ! पृथिव्यामेकलोचनम् । द्वितीयलोचनस्यार्थे तपस्तपति मेदिनी ।। १ ।। एकदा कन्यकुब्जेशः शम्भलीशनृपो जनपरम्परया स्वर्णपूरुषकथां श्रुत्वा सैन्यैरमितैश्चित्रकूटं वेष्टितवान् । अतिविषमत्वेन ग्रहीतुं न शक्नोति । तत्र स्थितस्य षोडशवर्षाणि चित्रकूटोपरिस्था लोका देवा इव बाधाभयरहिताः सुखेन कालं गमयन्ति स्म । शम्भलीशेन दुर्गस्वरूपजिज्ञासया चरा मध्ये प्रहिताः । ते च भ्रामं भ्रामं लोकसुखितां विलोक्य सुमति मन्त्रिगृहगवाक्षाऽधव्यवस्थिताः श्रृण्वन्ति स्म गवाक्षोपरिस्थमन्त्रितत्सुतासंवादम् । पुत्री पितरमाह, हे तात ! एते वाणिजयकाराः कस्मादत्र स्थिताः सन्ति ? मन्त्र्याह, नैते वाणिजाः, किं तु शम्भलीशनृपस्त्वञ्जन्मन्यत्रायातो दुर्गं गृहीतुम् । त्वं षोडशवर्षा जाता परिणीता पुत्रवती च नृपोऽयमत्रैव स्थितोऽस्तीति श्रुत्वा चरै राज्ञे निवेदितम् । अन्येद्य चित्राङ्ग
।।६