________________
कुमारपाल
॥६०॥
******
सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशाः, साकं त्वचा कररुहाश्च न दुःखितानाम् ॥ ३ ॥ हनुलोचन बाहुनासिकास्तनयोरन्तरमत्र पञ्चकम् । इति दीर्घमिदं तु सौख्यदं न भवत्येव नृणामभूभुजाम् ॥ ४ ॥ त्रिg fagoो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्हस्वः । सप्तसु रक्तो राजा, पञ्चसु दीर्घश्व सूक्ष्मश्र्व ॥ ५ ॥ कृष्णचतुर्दश्यां रात्रौ चित्रनगोपरि मम मन्त्रः सिद्ध्यति, यदि त्वमुत्तरसाधको भवसि । ततो राज्ञा ॐ इत्येक्ते तस्मिन् दिने राजानमनुमन्त्र्यपि तत्र जगाम ।
नृपोऽथ चित्रशैलाग्रमारूढो वीक्ष्य योगिनम् । व्याघ्नं च होमसामग्रीं ततोऽजल्पत् करोमि किम् ॥ १ ॥ अत्रान्तरे मन्त्री नृपमुवाच देव ! अयं त्वां हि होमित्वा स्वर्णपौरुषं सिसाधिषुर्लक्ष्यते, तेन स्वयत्नपरैर्भाव्यमिति । अथ योगिना वह्निकुण्डे प्रज्वालिते जापे कृते
२ ।।
३ ॥
उक्तश्च राजा त्वं देव ! प्रतिपन्नैकवत्सल ! । तदस्य वह्निकुण्डस्य देहि प्रदक्षिणात्रयम् ॥ १ ॥ राजा सशङ्कस्तं प्राह त्वं योगिन्नग्रतो भव । ततो योगी तथाकुर्वन्न छलं प्राप भूपतेः ॥ अथ व्यावृत्य सहसा नृपं यावज्जुहोति सः । तावन्नरेन्द्रमन्त्रिभ्यां स एवाग्नौ हुतो हठात् ॥ व्याघ्रोऽप्यनुप्रविष्टस्तं संजातः स्वर्णपौरुषः । संपूज्य तं गृहीत्वा च राजाऽगान्निजमन्दिरम् ॥ ४ ॥ यच्छन् यथेच्छं द्रविणं ख्याति स प्राप सर्वतः । ततः स्वऋद्धिरक्षार्थमादिदेशेति मन्त्रिणम् ॥ ५ ॥ यथा चित्रगिरेः पार्श्वे कूटशैलोऽस्ति दुर्गमः । तस्योपरि महादुर्गं कारयाभङ्गरोद्यमः ॥ ६ ॥
★★★★★★★★X
प्रबन्ध
॥६०