________________
॥५९॥
धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायता-मानन्दाजलं पिबन्ति शकुना निःशङ्कमळेशयाः ।
अन्येषां तु मनोरथापरिचितप्रासादवापीतट-क्रीडाकाननकेलिकौतूकपूषामायुः परिक्षीयते ॥१॥ ततस्तमुत्सारितध्यानं नमश्चक्रे कुमारः । सोऽप्यवादीत--
सर्वस्मिन्नणिमादिपङ्कजवने रम्येऽपि हित्वा रति, शुद्धां मुक्तिमरालिका प्रतिदृशं यो दत्तवानादरात् ।
चेतोवृत्तिनिरोधलब्धपरमब्रह्मप्रमोदाम्बुभृत्, सम्यक् साम्यससेजसंस्थितिजुषे हंसाय तस्मै नमः ॥ १ ॥ ततः कुमारोऽपृच्छत्, योगिन् ! किं स्नानं ? किं दानं ? किं ज्ञानं ? किं ध्यानं ? चेति । उवाच योगी--
स्नानं मनोमलत्यागो दानं चाभयदक्षिणा । ज्ञानं तत्त्वार्थसंबोधो ध्यान निविषयं मनः ॥१॥ एतदाकर्ण्य प्रमुदितः प्रशंसां कुर्वन् कतिपयैदिनैश्चित्रकूटमगमत् । तत्र श्रीशान्तिनाथप्रासादे रामचन्द्रमुनि ननाम । जातचित्रश्चित्रकूटमूलोत्पत्ति पप्रच्छ । राममुनिराह, पुरा रघोवंशे चित्राङ्गदो राजाऽभिनवैः फलैः केनापि योगिना व्याघ्रयुक्तेन षण्मासान सेवितः । राज्ञा कारणं पृष्टः प्राह योगी, द्वात्रिंशल्लक्षणधरस्य तव सांनिध्यान्मम मन्त्रसिद्धिर्भवतु । कानि तानि लक्षणानीति राज्ञा पृष्टः प्राह
नाभिः स्वरः सत्त्वमिति प्रतीतं, गम्भीरमेतत्त्रितयं नराणाम् । उरो ललाटं वदन च पुंसां, विस्तीर्णमेतत्त्रितयं प्रसिद्धम्॥१॥ वक्षोऽथ कूक्षिन खनासिकाऽऽस्य, कृकाटिका चेति षड़न्नतानि । हस्वानि चत्वार्यथ लिङ्गपष्ठ, ग्रीवा च जङ्ग्रे स्वहितप्रदानि।।२।।
नेत्रान्तपादकरताल्वधरोष्ठजिह्वा, रक्तान्यमनि ननु सप्त हितप्रदानि ।